मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १८५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 185

देवमातृगौरीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवमातरमव्ययाम् ॥

मंकीशान्नैर्ऋते भागे गौरीरूपसमाश्रिताम् ॥

देवमाता सरस्वत्या नाम लोकेषु गीयते

॥१॥

पादुकासनसंस्था च तत्र देवी सरस्वती ॥

गौरीरूपेण सा तत्र वडवाश्रितविग्रहा

॥२॥

मातृवद्रक्षिता देवा वडवानलभीतितः ॥

देवमातेति लोकेऽस्मिं स्ततः सा विबुधैः कृता

॥३॥

माघे मासे तृतीयायां यस्तामर्चयते नरः ॥

नारी वा संयता साध्वी सर्वान्कामानवाप्नुयात्

॥४॥

दंपती भोज येद्यस्तु पायसैः शर्करादिभिः ॥

गौरीसहस्रभोज्यस्य दत्तस्य फलमाप्नुयात्

॥५॥

सुवर्णपादुका देया तत्र विप्राय शीलिने

॥६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देवमातृगौरीमाहात्म्यवर्णनंनाम पंचा शीत्युत्तरशततमोऽध्यायः ॥ १८५ ॥