मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २१७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 217

देवराजेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

गौतमेश्वरतो देवि पश्चिमे नातिदूरतः ॥

धनुःषोडशभिर्देवि देवराजेश्वरः स्थितः

॥१॥

लिंगं स स्थापयामास ततः पापैर्व्यमुच्यत ॥

यस्तं समाहितमनाः पूजयिष्यति मानवः ॥

स च मानवसंभूतात्पातकात्संप्रमोक्ष्यति

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देवराजेश्वरमाहात्म्यवर्णनंनाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥ २१७ ॥