भूधरयज्ञवराहमाहात्म्यवर्णनम्
तत्रैव संस्थितं पश्येद्भूधरंनाम नामतः ॥
उद्धृत्य पृथिवीं यस्माद्दंष्ट्राग्रेण दधार सः
॥१॥भूधरस्तेन चाख्यातो देविकातटसंस्थितः ॥
वेदपादो यूपदंष्ट्रः क्रतुदन्तः स्रुचीमुखः
॥२॥अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥
अहोरात्रेक्षणपरो वेदांगश्रुतिभूषणः
॥३॥आद्यनासः स्रुवतुंडः सामघोषस्वनो महान् ॥
प्राग्वंशकायो द्युतिमा न्नानादीक्षाविराजितः
॥४॥दक्षिणाहृदयो योगी महासत्रशयो महान् ॥
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः
॥५॥नानाच्छन्दोगतिपथो ब्रह्मोक्तक्रमविक्रमः ॥
भूत्वा यज्ञवराहोऽसौ तत्र स्थाने स्थितोऽभवत्
॥६॥पुष्यमासे ह्यमावास्यामेकादश्यामथापि वा ॥
प्राप्ते प्रावृषि काले च ज्ञात्वा कन्यागतं रविम्
॥७॥पायसं गुडसंयुक्तं हविष्यं च गुडप्लुतम् ॥
नमो वः पितरो रसाय अन्नाद्यमभिमंत्रयेत्
॥८॥तेजोऽसिशुक्रमित्याज्यं दधिक्राव्णेन वै दधि ॥
क्षीरमाज्याय मन्त्रेण व्यञ्जनानि च यानि तु
॥९॥भक्ष्यभोज्यानि सर्वाणि महानिन्द्रेण दापयेत् ॥
संवत्स रोनियो मंत्रं जप्त्वा तेनोदकं द्विजः
॥१०॥एवं संभोज्य वै विप्रान्पिण्डदानं तु दापयेत् ॥
इत्यनेन विधानेन यस्तत्र श्राद्धकृद्भवेत्
॥११॥तस्य तृप्तास्तु पितरो यावदिंद्राश्चतुर्द्दश ॥
गयाश्राद्धं विनापीह गयाश्राद्धफलं लभेत्
॥१२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये भूधरयज्ञवराहमाहात्म्यवर्णनंनाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७७ ॥