मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ६२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 62

चत्वरादेवीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तृतीयां चत्वरप्रियाम् ॥

ललितापूर्वदिग्भागे दशधन्वंतरे स्थिताम्

॥१॥

क्षेत्रदूतीं महारौद्रीं रुद्रशक्तिं महाप्रभाम् ॥

क्षेत्ररक्षाविधौ तत्र मया मुक्तां तु मध्यतः

॥२॥

कोटिभूतसमायुक्ता महाकाया महाप्रभा ॥

जीर्णे गृहे तथोद्याने प्रासादाट्टालके पथि

॥३॥

चत्वरेषु च सर्वेषु क्षेत्र मध्यस्थिता सती ॥

रात्रौ पर्यटते देवी भूतानां कोटिभिर्वृता

॥४॥

महानवम्यां यस्तत्र नारी वाथ नरोपि वा ॥

नानापूजोपचारैश्च पूजयेद्विधिवच्छुभाम्

॥५॥

तस्य तुष्टाऽखिलान्कामान्सादेवी संप्रदास्यति ॥

दंपत्योर्भोजनं तत्र देयं यात्राफलेप्सुभिः

॥९॥

इति संक्षेपतः प्रोक्तं माहा त्म्यं पापनाशनम् ॥

क्षेत्रदूत्यास्तृतीयायाः श्रुतमैश्वर्यकारकम्

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चत्वरादेवीमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥