मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १४१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 141

ततो गच्छेन्महादेवि कपर्दी यत्र संस्थितः

ईश्वर उवाच

ततो गच्छेन्महादेवि कपर्दी यत्र संस्थितः ॥

तस्यैव उत्तरे भागे नातिदूरे व्यवस्थितः ॥

चिंतितार्थप्रदो देवि चिन्तामणिरिवापरः

॥१॥

चतुर्थ्यां तं तु देवेशि अंगारकदिने पुनः ॥

स्नापयित्वा तु संपूज्य नैवेद्यैर्विविधैः शुभैः ॥

सन्तर्प्य विघ्नराजेशं सर्वान्कामानवाप्नुयात्

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपर्दिचिन्तामणिमाहात्म्यवर्णनं नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥