ततो गच्छेन्महादेवि विदुरस्याश्रमं महत्
ईश्वर उवाच
ततो गच्छेन्महादेवि विदुरस्याश्रमं महत् ॥
यत्राकरोत्तपो रौद्रं विदुरो धर्म मूर्त्तिमान्
॥१॥प्रतिष्ठाप्य महादेवं लिंगं त्रिभुवनेश्वरम् ॥
तं दृष्ट्वा मानवो देवि सर्वान्कामानवाप्नुयात्
॥२॥विदुराट्टालकं नाम गणगंधर्वसेवितम् ॥
द्वादशस्थानकं स्थानं नाल्पपुण्येन लभ्यते
॥३॥नावर्षणं भवेत्तत्र कदाचिदपि पार्वति ॥
लिंगानि तत्र दिव्यानि पश्येत्पापोपशांतये
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये विदुराश्रम माहात्म्यवर्णनंनामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २६९ ॥