ततो गच्छेन्महादेवि कालमेघेति विश्रुतम्
ईश्वर उवाच
ततो गच्छेन्महादेवि कालमेघेति विश्रुतम् ॥
तस्मात्तं पूर्वदिग्भागे क्षेत्रपं लिंगरूपिणम्
॥१॥अष्टम्यां वा चतुर्द्दश्यां पूज्योऽसौ बलिभिर्नरैः ॥
वांछितार्थप्रदः सम्यक्स कलौ कल्पपादपः
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कालमेघमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३१ ॥