मंत्रावलिक्षेत्रपालमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि क्षेत्रपालं महाप्रभम् ॥
ईशाने संस्थितं देवं मंत्रमालाविभूषितम्
॥१॥हिरण्यातटमाश्रित्य रक्षार्थं समुपस्थितम् ॥
तत्रैव हीरकं क्षेत्रं तस्मिन्रक्षां करोति सः
॥२॥कृष्णपक्षे त्रयोदश्यां तत्र तं पूजयेन्नरः ॥
गंधपुष्पोपहारैश्च तथा बलि निवेदनैः
॥३॥एवं संपूजितो देवः सर्वकामप्रदो भवेत्
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंत्रावलिक्षेत्रपालमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४३ ॥