मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २१५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 215

कुमारेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥

मार्कण्डेश्वरतो देवि दक्षिणे नातिदूरतः ॥

धनुर्विंशतिभिस्तत्र स्थितं स्वामिप्रतिष्ठितम्

॥१॥

ततः कृत्वा तपो घोरं कार्त्तिकेयेन भाभिनि ॥

परदारापहारोत्थपापानां नाशहेतवे

॥२॥

लिंगं स्थापितवांस्तत्र स मुक्तः किल्विषात्ततः ॥

वैराग्याद्यौवनं त्यक्त्वा कौमारं पुनराददे

॥३॥

पितॄन्हत्वा सुमाली च तमाराधितवान्पुरा ॥

सोऽपि मुक्तोऽभवद्देवि पापात्पितृवधोद्भवात्

॥४॥

कुमारेश्वरनामैतत्पूजितं वै सुरासुरैः ॥

तस्याग्रतः कुमारस्य कूपस्तिष्ठति भामिनि

॥५॥

तत्र स्नात्वा पूजयेद्यः शूलिनं स्वामिपूजितम् ॥

स मुक्तः पातकैः सर्वैर्गच्छेत्स्वामिपुरं महत्

॥६॥

शातकौंभमयं यस्तु ताम्रचूडं द्विजातये ॥

दद्यात्स्वामिनमुद्दिश्य स तु यात्राफलं लभेत्

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥ २१५ ॥