मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २२९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 229

ततो गच्छेन्महादेवि गंगां त्रिपथगामिनीम्

ईश्वर उवाच

ततो गच्छेन्महादेवि गंगां त्रिपथगामिनीम् ॥

अनरकेशतो देवि ऐशान्यां दिशि संस्थिताम्

॥१॥

स्वयंभूतां धरामध्यादानीतां विष्णुना पुरा ॥

यादवानां तु मुक्त्यर्थं सर्वपापोपशान्तये

॥२॥

यस्तत्र कुरुते स्नानं कथंचित्पुण्यसंचयात् ॥

श्राद्धं चैव विधानेन न स शोचेत्कृताकृते

॥३॥

ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात् ॥

तत्पुण्यं प्राप्नुयाद्देवि कार्तिक्यां जाह्नवीजले

॥४॥

कलौ युगे तु संप्राप्ते दुर्ल्लभं तत्र दर्शनम् ॥

किं पुनः स्नानदानं तु प्रभासे जाह्नवीजले

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगामाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥