मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३२६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 326

महाकालमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम् ॥

महाकालेश्वरं देवं सर्वरक्षाकरं परम्

॥१॥

अधिष्ठाता पुरस्यास्य भैरवो रुद्ररूपधृक् ॥

दर्शे च पूर्णिमायां च महापूजां प्रकारयेत्

॥२॥

महोदये नरः स्नात्वा महाकालं प्रपश्यति ॥

धनाढ्यो जायते लोके सप्तजन्मसहस्रकम्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२६ ॥