ततो गच्छेन्महादेवि देवं वै संगमेश्वरम्
ईश्वर उवाच
ततो गच्छेन्महादेवि देवं वै संगमेश्वरम् ॥
गोलक्षमिति विख्यातं सर्वपातकनाशनम्
॥१॥तस्यैव पश्चिमे भागे सर्वकामफलप्रदम् ॥
ऋषिरुद्दालकोनाम पुरा ह्यासीन्महातपाः
॥२॥स पुरा संगमं प्राप्य सर्वपापप्रणाशनम् ॥
सरस्वत्याश्च पिंगायास्तपस्तेपे सुरेश्वरि
॥३॥ततस्तपस्यतस्तस्य तपो रौद्रं महात्मनः ॥
पुरतो ह्युत्थितं लिंगं भक्त्या युक्तस्य सुन्दरि
॥४॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
उद्दालक महाबाहो शृणुष्वैतद्वचो मम
॥५॥अद्यप्रभृति वासोऽत्र मम नित्यं भविष्यति ॥
यस्मादत्र समुत्पन्नं संगमे लिंगमुत्तमम् ॥
संगमेश्वरमित्येव नाम चास्य भवि ष्यति
॥६॥येत्र स्नानं नराः कृत्वा संगमे लोकविश्रुते ॥
संगमेश्वरमीक्षन्ते ते यांति परमां गतिम्
॥७॥ईश्वर उवाच
ततस्तं पूजयामास दिवारात्रमतंद्रितः ॥
ततो देहावसानेऽसौ गतो यत्र महेश्वरः
॥८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे ,प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥