मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 290

कुबेरनगरोत्पत्तिकुबेरस्थापितसोमनाथमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि कुबेरस्थानमुत्तमम् ॥

यत्र सिद्धः पुरा देवि कुबेरो धनदोऽभवत्

॥१॥

ब्राह्मणश्चौररूपेण तत्र स्थानेऽवसत्पुरा ॥

स च मे भक्तियोगेन पुरा वै धनदः कृतः

॥२॥

देव्युवाच

कथं स ब्राह्मणो भूत्वा चौररूपो नराधमः ॥

तन्मे कथय देवेश धनदः स यथाऽभवत्

॥३॥

ईश्वर उवाच

तस्मिन्नर्थे महादेवि यद्वृत्तं चौत्तमेंऽतरे ॥

कथयिष्यामि तत्सर्वं शिवमाहात्म्यसूचकम्

॥४॥

कश्चिदासीद्द्विजो देवि देवशर्मेति विश्रुतः ॥

प्रभासक्षेत्रनिलयो न्यंकुमत्यास्तटेऽवसत्

॥५॥

पुत्रक्षेत्रकलत्रादिव्यापारैकरतः सदा ॥

विहायाथ स गार्हस्थ्यं धनार्थं लोभ मोहितः ॥

प्रचचार महीमेतां सग्रामनगरांतराम्

॥६॥

भार्या तस्य विलोलाक्षी तस्य गेहाद्विनिर्गता ॥

स्वच्छंदचारिणी नित्यं नित्यं चानंगमोहिता

॥७॥

तस्यां कदाचित्पुत्रस्तु शूद्राज्जातो विधेर्वशात् ॥

दुष्टात्माऽतीव निर्मुक्तो नाम्ना दुःसह इत्यतः

॥८॥

सोऽथ कालेन महता नामकर्मप्रवर्तितः ॥

व्यसनोपहतः पापस्त्यक्तो बन्धुजनैस्तथा

॥९॥

पूजोपकरणं द्रव्यं स कस्मिंश्चिच्छिवालये ॥

बहुदोषामुखे दृष्ट्वा हर्तुकामोऽविशत्ततः

॥१०॥

यावद्दीपो गतप्रायो वर्त्तिच्छेदोऽभवत्किल ॥

तावत्तेन दशा दत्ता द्रव्यान्वेषणकारणात्

॥११॥

प्रबुद्धश्चोत्थितस्तत्र देवपूजाकरो नरः ॥

कोऽयं कोयमिति प्रोच्चैर्व्याहरत्परिघायुधः

॥१२॥

स च प्राणभयान्नष्टः शूद्रजश्चापि मूढधीः ॥

विनिन्दन्नात्मनो जन्म कर्म चापि सुदुःखित

॥१३॥

पुरपालैर्हतोऽवन्यां मृतः कालादभूच्च सः ॥

गंधारविषये राजा ख्यातो नाम्ना सुदुर्मुखः

॥१४॥

गीतवाद्यरतस्तत्र वेश्यासु निरतो भृशम् ॥

प्रजोपद्रवकृन्मूर्खः सर्वधर्मबहिष्कृतः

॥१५॥

किन्त्वर्चयन्सदैवासौ लिंगं राज्यक्रमागतम् ॥

पुष्पस्रग्धूपनैवेद्यगंधादिभिरमन्त्रवत्

॥१६॥

मुख्येषु च सदा काले देवतायतनेषु च ॥

दद्यात्स बहुलान्दीपान्वर्तिभिश्च समुज्ज्वलान्

॥१७॥

कदाचिन्मृगयासक्तो बभ्राम स च वीर्यवान् ॥

प्रभास क्षेत्रमागात्य पूर्वसंस्कारभावितः

॥१८॥

परैरभिहतो युद्धे न्यंकुमत्यास्तटे शुभे ॥

शिवपूजाविधानेन विध्वस्ताशेषपातकः

॥१९॥

ततो विश्रवसश्चासौ पुत्रोऽभूद्भुवि विश्रुतः ॥

यः स एव महातेजाः सर्वयज्ञाधिपो बली

॥२०॥

कुबेर इति धर्मात्मा श्रुतशीलसमन्वितः ॥

लिंगं प्रतिष्ठयामास न्यंकुमत्याश्च पूर्वतः

॥२१॥

कौबेरात्पश्चिमे भागे सोमनाथेति विश्रुतम् ॥

संपूज्य च यथेशानं न्यंकुमत्यास्तटे शुभे ॥

स्तोत्रेणानेन चास्तौषीद्भक्त्या तं सर्वकामदम्

॥२२॥

मूर्तिः क्वापि महेश्वरस्य महती यज्ञस्य मूलोदया तुम्बी तुंगफलावती च शतशो ब्रह्माण्डकोटिस्तथा ॥

यन्मानं न पितामहो न च हरिर्ब्रह्माण्डमध्यस्थितो जानात्यन्यसुरेषु का च गणना सा संततं वोऽवतात्

॥२३॥

नमाम्यहं देवमजं पुराणमु पेन्द्रमिन्द्रावरराजजुष्टम् ॥

शशांकसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं प्रलयादिहेतुम्

॥२४॥

सर्वेश्वरैकत्रिबलैकबन्धुं योगाधिगम्यं जगतोऽधिवासम् ॥

तं विस्मयाधारमनंतशक्तिं ज्ञानोद्भवं धैर्यगुणाधिकं च

॥२५॥

पिनाकपाशांकुशशूलहस्तं कपर्दिनं मेघसमानघोषम् ॥

सकालकण्ठं स्फटिकावभासं नमामि शंभुं भुवनैकनाथम्

॥२६॥

कपालिनं मालिनमादिदेवं जटाधरं भीमभुजंगहारम् ॥

प्रभासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं विशिष्टम्

॥२७॥

यदक्षरं निर्गुणमप्रमेयं सज्योतिरेकं प्रवदंति संतः ॥

दूरंगमं वेद्यमनिंद्यवन्द्यं सर्वेषु हृत्स्थं परमं पवित्रम्

॥२८॥

तेजोनिभं बालमृगांकमौलिं नमामि रुद्रं स्फुरदुग्रवक्त्रम् ॥

कालेन्धनं कामदमस्तसंगं धर्मासनस्थं प्रकृतिद्वयस्थम्

॥२९॥

अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् ॥

तमोमयं वेदमयं चिदंशं प्रजापतीशं पुरुहूतमिन्द्रम् ॥

अनागतैकध्वनिरूपमाद्यं ध्यायंति यं योगविदो यतीन्द्राः

॥३०॥

संसारपाशच्छिदुरं विमुक्तः पुनः पुनस्त्वां प्रणमामि देवम्

॥३१॥

निरूपमास्यं च बलप्रभावं न च स्वभावं परमस्य पुंसः ॥

विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिंत्यम्

॥३२॥

शिवं समाराध्य तमुग्रमू्र्त्तिं पपौ समुद्रं भगवानगस्त्यः ॥

लेभे दिलीपोऽप्यखिलांश्च कामांस्तं विश्वयोनिं शरणं प्रपद्ये

॥३३॥

देवेन्द्रवन्द्योद्धर मामनाथं शम्भो कृपाकारुणिकः किल त्वम् ॥

दुःखाऽर्णवे मग्नमुमेश दीनं समुद्धर त्वं भव शंकरोऽसि

॥३४॥

संपूजयन्तो दिवि देवसंघा ब्रह्मेन्द्ररुद्रा विहरंति कामम् ॥

तं स्तौमि नौमीह जपामि शर्वं वन्देऽभिवंद्यं शरणं प्रपन्नः

॥३५॥

स्तुत्वैवमीशं विरराम यावत्तावत्स रुद्रोऽर्कसहस्रतेजाः ॥

ददौ च तस्मै वरदोंऽधकारिर्वरत्रयं वैश्रवणाय देवः ॥

सख्यं च दिक्पालपदं चतुर्थं धनाधिपत्यं च दिवौकसां च

॥३६॥

यस्मादत्र त्वया सम्यङ्न्यंकुमत्यास्तटे शुभे ॥

आराधितोऽहं विधिवत्कृत्वा मूर्त्तिं महीमयीम्

॥३७॥

तस्मात्तवैव नाम्ना तत्स्थानं ख्यातं भविष्यति ॥

कुबेरनगरेत्येवं मम प्रीतिप्रदायकम्

॥३८॥

त्वया प्रतिष्ठितं लिंगमस्मात्स्थानाच्च पश्चिमे ॥

उमानाथस्य विधिवत्सोमनाथेति तत्स्मृतम्

॥३९॥

श्रीपंचम्यां विधानेन यस्तच्च पूजयिष्यति ॥

सप्तपुरुषावधिर्यावत्तस्य लक्ष्मीर्भविष्यति

॥४०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये कुबेरनगरोत्पत्तिकुबेरस्थापितसोमनाथमाहात्म्यवर्णनंनाम नवत्युत्तरद्विशततमोऽध्यायः ॥ २९० ॥