मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २१६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 216

गौतमेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

मार्कण्डेश्वरतो देवि उत्तरे लिंगमुत्तमम् ॥

धनुषां पञ्चदशभिर्गौतमेश्वरनामकम्

॥१॥

गुरुं हत्वा पुरा देवि गौतमः पापदुःखितः ॥

तत्र लिंगं प्रतिष्ठाप्य तस्मात्पापाद्व्यमुच्यत

॥२॥

यस्तत्र कपिलां दद्यात्स्नात्वा नद्यां विधानतः ॥

संपूज्य विधिवल्लिंगं मुच्यते पञ्चपातकैः

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्यवर्णनंनाम षोडशोत्तरद्विशततमोऽध्यायः ॥ २१६ ॥