मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १२५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 125

पौलोमोश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महालिंगं महादेवि सुरप्रियम् ॥

रावणेश्वरवायव्ये धनुषां त्रिंशकेऽन्तरे

॥१॥

स्थितं कामप्रदं लिंगं सर्वपातकनाशनम् ॥

पौलोमीश्वरनामाढचं पौलोम्या संप्रतिष्ठितम्

॥२॥

तारकेण यदा ध्वस्तास्त्रिदशाः संगरे स्थिताः ॥

त्रैलोक्यं विहृतं सर्वं स्वयमिन्द्रत्वमागतः

॥३॥

तदा शक्रः सुदुःखार्तो भयोद्विग्नो ननाश वै ॥

तदा तद्भार्यया देवि इन्द्राण्या शोककर्षया

॥४॥

इन्द्रस्य जयमिच्छन्त्या शंभुराराधितस्तया ॥

ततस्तुष्टो महादेवस्तामुवाच शुभेक्षणाम्

॥५॥

भगवानुवाच

उत्पत्स्यति सुतोऽस्माकं षण्मुखस्तु महाबलः ॥

तारकं दैत्यराजानं स चैनं घातयिष्यति

॥६॥

गच्छ त्वं विज्वरा भूत्वा शृणु भूयो वचश्च मे

॥७॥

अत्र स्थितमिदं लिंगं योऽस्माकं पूजयिष्यति ॥

स नूनं मे गणो भूत्वा मत्सकाशमुपेष्यति

॥८॥

एवमुक्ता गता साध्वी देवराड्यत्र संस्थितः ॥

सर्वद्दुःखविनिर्मुक्ता सर्वदैत्यभयोज्झिता

॥९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पौलोमोश्वरमाहात्म्यवर्णनंनाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥ १२५ ॥