ततो गच्छेन्महादेवि मातृस्थानमनुत्तमम्
ईश्वर उवाच
ततो गच्छेन्महादेवि मातृस्थानमनुत्तमम् ॥
भैरवेशेति विख्यातं सर्वभयविनाशनम्
॥१॥चतुर्दश्यां विधानेन कृष्णपक्षे यतात्मवान् ॥
पूजयेद्गन्धपुष्पैश्च बलिदानैस्तथोत्तमैः
॥२॥तं पुत्रमिव योगिन्यो रक्षंति भुवि मातरः
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये भैरवेश्वरमातृगणमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२८ ॥