ततो गच्छेन्महादेवि चमसोद्भेदमुत्तमम्
ईश्वर उवाच
ततो गच्छेन्महादेवि चमसोद्भेदमुत्तमम् ॥
यत्र ब्रह्माऽकरोत्सत्रं वर्षाणामयुतं प्रिये
॥१॥चमसैः पीतवन्तस्ते सोमं देवा महर्षयः ॥
चमसोद्भेदनामेति तेन ख्यातं धरातले
॥२॥तत्र स्नात्वा सरस्वत्यां पिंडदानं ददाति यः ॥
गयाकोटिगुणं पुण्यं वैशाख्यां प्राप्नुयान्नरः
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चमसोद्भेदमाहात्म्य वर्णनंनामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६८ ॥