विचित्रेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि विचित्रेश्वरमुत्तमम् ॥
तस्यैव पूर्वदिग्भागे किञ्चिदाग्नेयगोचरे ॥
धनुषां दशके तत्र स्थितं पापप्रणाशनम्
॥१॥विचित्रेण महादेवि लेख केन यमस्य च ॥
स्थापितं तन्महालिंगं तपः कृत्वा सुदुश्चरम्
॥२॥तं दृष्ट्वा पूजितं चैव मुक्तः स्यात्सर्वपातकैः ॥
संपूज्य च विधानेन न दुःखी जायते नरः
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये विचित्रेश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४३ ॥