मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २७२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 272

त्रिपुरलिंगत्रयमाहात्म्यवर्णनम्

ईश्वर उवाच

तत्रैव संस्थितं पश्येत्प्राची देव्यास्तु संनिधौ ॥

लिंगत्रयं समाख्यातं त्रिपुराणां महात्मनाम्

॥१॥

विद्युन्माली तारकाख्यः कपोलाख्यस्तथैव च ॥

तैश्च प्रतिष्ठितं लिंगं दृष्ट्वा पापैः प्रमुच्यते

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिपुरलिंगत्रयमाहात्म्य वर्णनंनाम द्विसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७२ ॥