नारायणगृहमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि नारायणगृहं परम् ॥
गोष्पदाद्दक्षिणे भागे सागरस्य तटे शुभे
॥१॥न्यंकुमत्याः समीपे तु सर्वपातकनाशने ॥
तत्रकल्पांतरस्थायी स्वयं तिष्ठति केशवः
॥२॥पितॄणामुद्धरणार्थाय ह्यस्मिन्रौद्रे कलौ युगे ॥
यदा दैत्यविनाशं स कुरुते भगवान्हरिः
॥३॥विश्रामार्थं तदा तत्र गृहे तिष्ठति नित्यशः ॥
नारायणगृहं तेन विख्यातं जगतीतले
॥४॥कृते जनार्दनोनाम त्रेतायां मधुसूदनः ॥
द्वापरे पुण्डरीकाक्षः कलौ नारायणः स्मृतः
॥५॥एवं चतुर्युगे प्राप्ते पुनःपुनररिन्दम ॥
कृत्वा धर्मव्यवस्थानं तत्स्थानं प्रतिपद्यते
॥६॥एकादश्यां निराहारो यस्तं देवं प्रपश्यति ॥
स पश्यति ध्रुवं स्थाने प्रत्यानन्तं हरेः पदम्
॥७॥तेन पीतानि वस्त्राणि देयानि द्विजपुंगवे ॥
स्नानं श्राद्धं च कर्तव्यं सम्यग्यात्राफलेप्सुभिः
॥८॥इति ते कथितं महाप्रभावं हरिसंकेतनिकेतनोद्भवम् ॥
शृणुते वा प्रयतस्तु यः सुधीः पठते वा लभते स सद्गतिम्
॥९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये नारायणगृहमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३७ ॥