मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २८९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 289

तस्यैव दक्षिणे देवि तस्माद्गव्यूतिमात्रतः

ईश्वर उवाच

तस्यैव दक्षिणे देवि तस्माद्गव्यूतिमात्रतः ॥

पातालगामिनी गंगा संस्थिता पापनाशिनी

॥१॥

विश्वामित्रेण चाहूता स्नानार्थं वरवर्णिनि ॥

तत्र स्नात्वा महादेवि मुच्यते सर्वपातकैः

॥२॥

तत्र गंगेश्वरं दृष्ट्वा विश्वामित्रेश्वरं तथा ॥

बालेश्वरं च संप्रेक्ष्य सर्वान्कामानवाप्नुयात्

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्ये पाताल गंगेश्वरविश्वामित्रेश्वरबालेश्वराभिधलिंगत्रयमाहात्म्यवर्णनंनामैकोननवत्युत्तरद्विशततमोऽध्यायः ॥ २८९ ॥