मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 84

ततो गच्छेन्महादेवि आदिनारायणं हरिम्

ईश्वर उवाच

ततो गच्छेन्महादेवि आदिनारायणं हरिम् ॥

तस्याश्च पूर्वदिग्भागे सर्वपातकनाशनम्

॥१॥

पादुकासनसंयुक्तं सर्वदैत्यांतकारिणम् ॥

आदौ कृतयुगे देवि दैत्योऽभून्मेघवाहनः

॥२॥

महाबलो महाकायो योजनायुतविस्तरः ॥

अजेयः सर्वदेवानां त्रैलोक्यक्षयकारकः ॥

ब्रह्मणा तस्य तुष्टेन वरो दत्तो वरानने

॥३॥

यदा पादुकया विष्णुस्त्वां हनिष्यति संयुगे ॥

तदैव मृत्युर्भविता नान्यथा मरणं तव

॥४॥

इति लब्धवरो दैत्यः संतापयति भूतलम् ॥

युगानां कोटिमेकां तु सदेवासुरमानुषम्

॥५॥

संतप्य बहुधा देवि दक्षिणो दधिमागतः ॥

तत्र विध्वंसयामास ऋषीणामाश्रमाणि वै

॥६॥

ततस्त ऋषयः सर्वे विध्वस्ताश्रममण्डलाः ॥

शरणं चैव संप्राप्ता देवदेवं तु केशवम् ॥

अजेयं तं तु संज्ञात्वा तुष्टुवुर्गरुडध्वजम्

॥७॥

ऋषय ऊचुः

नमः परमकल्याणकल्याणायात्मयोगिने ॥

जनार्द्दनाय देवाय श्रीधराय च वेधसे

॥८॥

नमः कमलकिंजल्कसुवर्णमुकुटाय च ॥

केशवायातिसूक्ष्माय बृहन्मूर्ते नमोनमः

॥९॥

महात्मने वरेण्याय नमः पंकजनाभये ॥

नमोऽस्तु मायाहरये हरये हरिवेधसे

॥१०॥

हिरण्यगर्भगर्भाय जगतः कारणात्मने ॥

अच्युताय नमो नित्यमनन्ताय नमोनमः

॥११॥

नमो मायापटच्छन्न जगद्धात्रे महात्मने ॥

संसारसागरोत्तार ज्ञानपोतप्रदायिने ॥

अकुंठमतये धात्रे सर्गस्थित्यंत कर्मणे

॥१२॥

यथा हि वासुदेवेति प्रोक्ते नश्यति पातकम् ॥

तथा विलयमभ्येतु दैत्योऽयं मेघवाहनः

॥१३॥

यथा विष्णुः स्वभक्तेषु पापमाप्नोति संस्थितम् ॥

तथा विनाशमायातु दैत्योऽयं पापकर्मकृत्

॥१४॥

स्मृतमात्रो यथा विष्णुः सर्वं पापं व्यपोहति ॥

तथा प्रणाशमभ्येतु दैत्योऽयं मेघवाहनः

॥१५॥

भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य ॥

अभेद्यभक्त्या परमेश्वरेशे स्मृते जगद्धातरि वासुदेवे

॥१६॥

ये भूतले ये दिवि येऽन्तरिक्षे रसातले प्राणिगणाश्च केचित् ॥

भवन्तु ते सिद्धियुता नरोत्तमाः स्मृते जगद्धातरि वासुदेवे

॥१७॥

ये प्राणिनः कुत्रचिदत्र संति ब्रह्माण्डमध्ये परतश्च केचित् ॥

तेषां तु सिद्धिः परमास्त्वनिंद्या स्तुते जगद्धातरि वासुदेवे

॥१८॥

ईश्वर उवाच

]।

इति स्तुतस्तदा देवि आदिनारायणो हरिः ॥

ज्ञात्वा स भावि कार्यं तत्समारुह्य च पादुकाम्

॥१९॥

बभूव तेषां प्रत्यक्ष ऋषीणां पापनाशनः ॥

उवाच प्रणतान्सर्वान्किं वा कार्यं हृदि स्थितम्

॥२०॥

कथ्यतां तत्करिष्यामि युष्मत्स्तोत्रेण तर्पितः

॥२१॥

इत्युक्ता ऋषयः सर्वे कृतांजलिपुटाः स्थिताः ॥

आदिदेवं हरिं प्रोचुः सर्वे नतशिरोधराः

॥२२॥

ऋषय ऊचुः

जानासि सर्वं त्वं देव न चास्त्यविदितं तव ॥

इमं दैत्यं महादेव संहरस्व महाबलम् ॥

यथेदं सकलं विश्वं निरातंकं भवेत्प्रभो

॥२३॥

इत्युक्तस्तैस्तदा विष्णुर्दैत्यमाहूय संयुगे ॥

ताडयामास तं दैत्यं हृदि पादुकया शुभे

॥२४॥

स हतः पतितो दैत्यो विगतासुर्महोदधौ ॥

हत्वा दैत्यवरं देवस्तत्र स्थाने स्थितोऽभवत् ॥

पादुकासनसंस्थस्तु तत्राद्यापि वरानने

॥२५॥

यस्तं पूजयते भक्त्या एकादश्यां नरोत्तमः ॥

सोश्ववमेधफलं प्राप्य मोदते दिवि देववत्

॥२६॥

गोलक्षं ब्राह्मणे दत्त्वा यत्फलं प्राप्नुयान्नरः ॥

तदादिदेवे गोविन्दे दृष्टे भक्त्या फलं लभेत्

॥२७॥

कलौ कृतयुगं तेषां क्लेशस्तेषां सुखाधिकः ॥

आदिनारायणो देवो येषां हृदयसंस्थितः

॥२८॥

एकादश्यां रविदिने स्नात्वा संनिहिता जले ॥

आदिनारायणं पूज्य मुच्यते भवबन्धनात्

॥२९॥

इति ते कथितं देवि माहात्म्यं विष्णुदैवतम् ॥

श्रुतं पापहरं नृणां दारिद्यौघविनाशनम्

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदिनारायणमाहात्म्यवर्णनंनाम चतुरशीतितमोध्यायः ॥ ८४ ॥