मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १०८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 108

ततो गच्छेन्महादेवि वसूनां लिंगमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि वसूनां लिंगमुत्तमम् ॥

सोमेशादीशदिग्भागे पञ्चाशद्धनुषान्तरे

॥१॥

स्थितं लिंगं महादेवि चतुर्वक्त्रं सुरप्रियम् ॥

प्रत्यूषेश्वरनामानं महापातकनाशनम्

॥२॥

दर्शनात्तस्य देवस्य सप्तजन्मान्तरोद्भवम् ॥

पापं प्रणाशमायाति सत्यंसत्यं वरानने

॥३॥

देव्युवाच

कोऽसौ प्रत्यूषनामेति कथं लिंगं प्रतिष्ठितम् ॥

कस्य पुत्रः स विख्यात एतन्मे वद शंकर

॥४॥

ईश्वर उवाच

दक्षो ब्रह्मसुतो देवि प्रजापतिरिति स्मृतः ॥

तस्य कन्याः पुरा षष्टिर्ददौ धर्माय वै दश

॥५॥

तासां मध्ये महादेवि एका विश्वेति विश्रुता ॥

सा धर्माच्च महादेवि अष्टावजनयत्सुतान्

॥६॥

आपो ध्रुवश्च सोमश्च धरश्चैवाऽनलोऽनिलः ॥

प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः

॥७॥

तेषां मध्ये सप्तमोऽसौ प्रत्यूष इति विश्रुतः ॥

स पुत्रकामो देवेशि प्रभासं क्षेत्रमागतः

॥८॥

स ज्ञात्वा कामिकं क्षेत्रं प्रतिष्ठाप्य महेश्वरम् ॥

तपश्चचार विपुलं दिव्यं वर्षशतं प्रिये ॥

ध्यायन्देवं महादेवं शान्तस्तद्गतमानसः

॥९॥

ततस्तुष्टो महादेवस्तस्य भक्त्या निरञ्जनः ॥

ददौ तस्य सुतं देवि देवलं योगिनां वरम्

॥१०॥

ततः प्रभृति देवेशि तल्लिंगस्य प्रभावतः ॥

देवलो भगवान्योगी प्रत्यूषस्याऽभवत्सुतः

॥११॥

अनेन कारणेनासौ प्रत्यूषेश्वरसंज्ञितः

॥१२॥

यश्चानपत्यः पुरुषस्तं समाराधयिष्यति ॥

तस्यान्ववाये देवेशि संततिर्न विनश्यति

॥१३॥

यः प्रत्यूषे महादेवि प्रत्यूषेश्वरमुत्तमम् ॥

पूजयिष्यति सद्भक्त्या सततं नियतात्मवान् ॥

तस्यैष्यति क्षयं पापमपि ब्रह्मवधोद्भवम

॥१४॥

वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः

॥१५॥

माघे कृष्णचतुर्द्दश्यां जागृयात्तत्र वै निशि ॥

सर्वेषां दानयज्ञानां फलं जागरणाल्लभेत्

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभाससक्षेत्रमाहात्म्ये प्रत्यूषेश्वरमाहात्म्यवर्णनंनामाष्टोत्तरशततमोऽध्यायः ॥ १०८ ॥

प्रत्यूषोपरि संक्षिप्त टिप्पणी