तत्रैव मानवं लिंगं मनुना संप्रतिष्ठितम्
ईश्वर उवाच
तत्रैव मानवं लिंगं मनुना संप्रतिष्ठितम् ॥
पूर्वं हत्वा सुतं देवि मनुः पापसमन्वितः
॥१॥क्षेत्रं पापहरं ज्ञात्वा तत्र प्रातिष्ठदीश्वरम् ॥
मुक्तश्चैवाभवत्पापात्तस्मात्पुत्रवधोद्भवात्
॥२॥पूजयेन्मानवो यस्तु स मुक्तः पातकैर्भवेत्
॥३॥इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मानवेश्वरमाहात्म्यवर्णनंनामाष्टादशोत्तरद्विशततमोऽध्यायः ॥ २१८ ॥