मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २३०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 230

गणपतिमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवं गणपतिप्रियम् ॥

तत्रैव संस्थितं सम्यङ्मया तत्र नियोजितः

॥१॥

गङ्गाया दक्षिणे देवि क्षेत्ररक्षणतत्परः ॥

माघे कृष्णचतुर्दश्यां यस्तं पूजयते नरः

॥२॥

दिव्यमोदकनैवेद्यैः पुष्पधूपादिभिः क्रमात् ॥

न तस्य जायते विघ्नं यावत्क्षेत्रे वसत्यसौ

॥३॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गणपतिमाहात्म्यवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३० ॥