रामेश्वरक्षेत्रमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि रामेश्वरमनुत्तमम् ॥
मंकीशाद्दक्षिणे भागे आग्नेये तु कृतस्मरात् ॥
पूर्वतस्तु सरस्वत्या बलभद्रप्रतिष्ठितम्
॥१॥यत्र मुक्तोऽभवद्देवि रामो ब्रह्मवधात्किल ॥
पातकात्प्रतिलोमां तामगाहत सरस्वतीम्
॥२॥देव्युवाच
कथं स पातकान्मुक्तः कथं पापमभूत्पुरा ॥
कथं तत्स्थापितं लिंगं किंप्रभावं वदस्व मे
॥३॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा मानवो देवि मुक्तः संसारसागरात् ॥
सर्वान्कामान्स लभते सततं मनसि प्रियान्
॥४॥रामः पूर्वं परां प्रीतिं कृत्वा कृष्णस्य लांगली ॥
चिन्तयामास बहुधा किं कृतं सुकृतं भवेत्
॥५॥कृष्णेन हि विना नाहं यास्ये दुर्योधनान्तिकम् ॥
पाण्डवान्वा समाश्रित्य कथं दुर्योधनं नृपम्
॥६॥जामातरं तथा शिष्यं घातयिष्ये नरेश्वरम् ॥
तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम्
॥७॥तीर्थेष्वाप्लावयिष्यामि तावदात्मानमात्मना ॥
कुरूणां पाण्डवानां च यावदंताय कल्पते
॥८॥इत्यादिश्य हृषीकेशं पार्थदुर्योधनावपि ॥
जगाम द्वारकां शौरिः स्वसैन्यैश्च परीवृतः
॥९॥गत्वा द्वारावतीं रामो हृष्टतुष्टजनाकुलाम् ॥
स्वैरन्तःपुरगैः सार्धं पपौ पानं हलायुधः
॥१०॥पीतपानो जगामाथ रैवतोद्यानमृद्धिमत् ॥
हस्ते गृहीत्वा स गदां रेवत्यादिभिरन्वितः
॥११॥स्त्रीकदंबकमध्यस्थो ययौ मत्तवदास्खलन् ॥
ददर्श च वनं वीरो रमणीयमनुत्तमम्
॥१२॥सर्वत्र तरुपुष्पाढ्यं शाखामृगगणाकुलम् ॥
पुष्प पद्मवनोपेतं सपल्वलमहावनम्
॥१३॥स शृण्वन्प्रीतिजनकान्वन्यान्मदकलाञ्छुभान् ॥
श्रोत्ररम्यान्सुमधुराञ्छब्दान्खगसुखेरितान्
॥१४॥सर्वतः फलरत्नाढ्यान्सर्वतः कुसुमोज्ज्वलान् ॥
अपश्यत्पादपांश्चैव विहगैरनुमोदितान्
॥१५॥आम्रानाग्रातकान्भव्यान्नालिकेरान्सतिंदुकान् ॥
आबल्वनांस्था पीतान्दाडिमान्बीजपूरकान् ॥
पनसाँल्लकुचान्मोचांस्तापांश्चापि मनोहरान् ॥
पालेवतान्कुसंकुल्लान्नलिनानथ वेतसान्
॥१७॥भल्लातकानामलकींस्तिन्दुकांश्च महाफलान् ॥
इंगुदान्करमर्दांश्च हरीतकबिभीतकान्
॥१८॥एतानन्यांश्च स तरून्ददर्श यदुनन्दनः ॥
तथैवाशोकपुन्नागकेतकीबकुलांस्तथा
॥१९॥चंपकान्सप्तपर्णांश्च कर्णिकारान्सुमालतीः ॥
पारिजातान्कोविदारा न्मन्दारेन्दीवरांस्तथा
॥२०॥पाटलान्पुष्पितान्रम्भान्देवदारुद्रुमांस्तथा ॥
शालांस्तालांश्च स्तमालांनिचुलान्वञ्जुलांस्तथा
॥२१॥चकोरैः शतपत्रैश्च भृंगराजैः समावृतान् ॥
कोकिलैः कलविंकैश्च हारीतैर्जीवजीवकैः
॥२२॥प्रियपुत्रैश्चातकैश्च शुकैरन्यैर्विहंगमैः ॥
श्रोत्ररम्यं सुमधुरं कूज द्भिश्चाप्यधिष्ठितैः
॥२३॥सरांसि च सपद्मानि मनोज्ञसलिलानि च ॥
कुमुदैः पुण्डरीकैश्च तथा रोचनकोत्पलैः
॥२४॥कह्लारैः कमलैश्चापि चर्चितानि समंततः ॥
कदंबैश्चक्रवाकैश्च तथैव जलकुक्कुटैः
॥२५॥कारण्डवैः प्लवैर्हंसैः कूर्मैर्मंडुभिरेव च ॥
एतैरन्यैश्च कीर्णानि तथान्यैर्जलवा सिभिः
॥२६॥क्रमेण संचरन्रामः प्रेक्षमाणो मनोरमम् ॥
जगामानुगतः स्त्रीभिर्लतागृहमनुत्तमम्
॥२७॥स ददर्श द्विजांस्तत्र वेदवेदांगपार गान् ॥
कौशिकान्भार्गवांश्चैव भारद्वाजांश्च गौतमान्
॥२८॥विविधेषु च संभूतान्वंशेषु द्विजसत्तमान् ॥
कथाश्रवणसोत्कण्ठानुपविष्टान्महा त्मनः
॥२९॥कृष्णाजिनोत्तरीयेषु कूर्चेषु च वृसीषु च ॥
सूते च तेषां मध्यस्थं कथयानं कथाः शुभाः
॥३०॥पौराणिकाः सुरर्षीणामा द्यानां चरितक्रियाः ॥
दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणम्
॥३१॥मत्तोऽयमिति मन्वानाः समुत्तस्थुस्त्वरान्विताः ॥
पूजयन्तो हलधरं तमृते सूतवंशजम्
॥३२॥ततः क्रोधसमाविष्टो हली सूतं महाबलः ॥
निजघान विवृत्ताक्षः क्षोभिताशेषदानवः
॥३३॥अन्वासिते पदं ब्राह्म्यं तस्मिन्सूते निपातिते ॥
निष्क्रान्तास्ते द्विजाः सर्वे वनात्कृष्णाजिनांबराः
॥३४॥अवधूतं तथात्मानं मन्यमानो हलायुधः ॥
चिन्तयामास सुमहन्मया पापमिदं कृतम्
॥३५॥ब्रह्मासनगतो ह्येष यः सूतो विनिपातितः ॥
तथा ह्येते द्विजाः सर्वे मामवेक्ष्य विनिर्गताः
॥३६॥शरीरस्य च मे गन्धो लोहस्येवासुखावहः ॥
आत्मानं चावगच्छामि ब्रह्मघ्नमिति कुत्सितम्
॥३७॥धिङ्ममार्थं तथा मद्यं महिमानमकीर्तिदम् ॥
येना विष्टेन सुमहन्मया पापमिदं कृतम्
॥३८॥स्मृत्युक्तं ते करिष्यामि प्रायश्चित्तं यथाविधि ॥
उक्तमस्त्येव मनुना प्रायश्चित्तादिकं क्रमात्
॥३९॥जपः प्रच्छन्नपापानां मनस्ताप एव च ॥
भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम्
॥४॥क्षेत्रेश्वरस्य विज्ञानाद्विशुद्धिः परमा मता ॥
शरीरस्य विशुद्धिस्तु प्रायश्चित्तैः पृथग्विधैः
॥४१॥ततोऽद्यतः करिष्यामि व्रतं द्वादशवार्षिकम् ॥
स्वकर्मख्यापनं कुर्वन्प्रायश्चित्तमनुत्तमम्
॥४२॥इयं विशुद्धिरज्ञानाद्धत्वा चाकामतो द्विजम् ॥
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते
॥४३॥यः कामतो महापापं नरः कुर्य्नात्कथंचन ॥
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते
॥४४॥अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ॥
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्
॥४५॥विधिः प्राथमिकस्तस्माद्द्वितीये द्विगुणं चरेत् ॥
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः
॥४६॥औषधं स्नेहमाहारं ददद्गोब्राह्मणादिषु ॥
दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते
॥४७॥अकारणं तु यः कश्चिद्द्विजः प्राणान्परित्यजेत् ॥
तस्यैव तत्र दोषः स्यान्न तु योऽस्मै ददाति तत्
॥४८॥परिष्कृतो यदा विप्रो हत्वाऽऽत्मानं मृतो यदि ॥
निर्गुणः सहसा क्रोधाद्गृहक्षेत्रादिकारणात्
॥४९॥त्रिवार्षिकं व्रतं कुर्या त्प्रतिलोमां सरस्वतीम् ॥
गच्छेद्वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम्
॥५०॥उद्दिश्य कुपितो हत्वा तोषितं वासयेत्पुनः ॥
तस्मिन्मृते न दोषोऽस्ति द्वयोरुच्छ्रावणे कृते
॥५१॥षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ॥
बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम्
॥५२॥यद्येको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥
प्रायश्चित्ते व्यवसिते यदि कर्ता विपद्यते
॥५३॥एनस्तत्प्राप्नुयादेनमिह लोके परत्र च ॥
तदहं किं करोम्येष क्व गच्छामि दुरात्मवान्
॥५४॥धिङ्मां च पापचरितं महादुष्कृतकर्मिणम्
॥५५॥ईश्वर उवाच
इत्येवं विलपन्यावच्छोका कुलितमानसः ॥
तावदाकाशसंभूता वागुवाचाशरीरिणी
॥५६॥भोभो राम न संतापस्त्वया कार्यः कथंचन ॥
गच्छ प्राभासिकं क्षेत्रं यत्र देवी सरस्वती
॥५७॥पञ्चस्रोताः स्थिता तत्र पञ्चपातकनाशनी ॥
नदीनां प्रवरा सा तु ब्रह्मभूता सरस्वती
॥५८॥एकतः सर्वतीर्थानि ब्रह्माण्डे सचराचरे ॥
गंगादीनि नरश्रेष्ठ तेषां पुण्या सरस्वती
॥५९॥तावद्गर्जंति पापानि ब्रह्महत्यादिकानि च ॥
यावन्न दृश्यते देवी प्रभासस्था सर स्वती
॥६०॥तस्मात्तत्रैव गच्छ त्वं यत्र देवी सरस्वती ॥
नान्यैस्तीर्थैः सहस्रैस्त्वं कर्तुं शक्यो विकल्मषः
॥६१॥तन्मा कार्षीर्विलंबं त्वं गच्छ तीरं महोदधेः ॥
प्राभासिके महादेवीं प्रतिलोमां विगाहय
॥६२॥तत्रैवाराधय विभुं लिंगरूपिणमीश्वरम् ॥
प्रतिष्ठाप्य महापापाच्छारी रात्त्वं विमोक्ष्यसि
॥६३॥इति श्रुत्वा वचो रामः परमानंदपूरितः ॥
प्रभासक्षेत्रगमने मतिं चक्रे महामनाः
॥६४॥ततः स्वसैन्यसंयुक्तो द्रव्योपस्करसंयुतः ॥
आजगाम महाक्षेत्रं प्रभासमिति विश्रुतम्
॥६५॥दृष्ट्वा मनोरम तीर्थं सरस्वत्यब्धिसंगमे ॥
चकार हृदि संकल्पं प्रति लोमावगाहने
॥६६॥आहूय ब्राह्मणांस्तत्र प्रभासक्षेत्रवासिनः ॥
सम्यग्यात्राविधानेन यात्रां तत्राकरोद्विभुः
॥६७॥यानि प्राभासिके क्षेत्रे तीर्थानि विविधानि तु ॥
रवियोजनसंस्थानि तेषु यात्रां चकार सः
॥६८॥प्रत्येकं च ददौ तेषु दानानि विविधानि तु ॥
तथाऽधः स्थाप यामास सरस्वत्यब्धिसंगमे
॥६९॥पूर्वभागे महालिंगं कृत्वा यज्ञविधिक्रियाम् ॥
एवं कृते महादेवि विमुक्तः पातकैरभूत्
॥७०॥निर्मर्लांगस्ततो देवि दिनानि दश संस्थितः ॥
ततस्तां चैव स स्नात्वा प्रतिलोमां क्रमाद्ययौ ॥
प्लक्षावहरणं यावत्समुद्राच्च हिमाह्वयम्
॥७१॥एवं मुक्तः स पापौघै रामोऽभूत्प्रथितः प्रिये ॥
तस्य लिंगस्य माहात्म्यात्सरस्वत्याः प्रसादतः
॥७२॥यस्तत्पूजयते देवि लिंगं पापभयापहम् ॥
रामेश्वरेति कथितं सोऽपि मुच्येत पातकात्
॥७३॥अष्टम्यां च विशेषेण ब्रह्मकूर्चविधानतः ॥
यस्तत्र कुरुते देवि सोऽश्वमेधफलं लभेत्
॥७४॥स्नात्वा तत्र वरारोहे सरस्वत्यब्धिसंगमे ॥
रामेश्वरेतिनामानं ततः संपूज्य शंकरम् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः
॥७५॥इत्येवं कथितं देवि रामेश्वरमहोदयम् ॥
यच्छ्रुत्वा मानवः सम्यक्छ्रद्धावान्प्राप्नुयाद्दिवम्
॥७६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्यवर्णनंनाम द्व्युत्तरद्विशततमोऽध्यायः ॥ २०२ ॥