मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३३४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 334

तलस्वामिमाहात्म्यवर्णनम्

ईश्वर उवाच

भगवन्देवदेवेश संसारार्णवतारक ॥

पृच्छामि त्वामहं भक्त्या किञ्चित्कौतूहलात्पुनः

॥१॥

यत्त्वया कथितं देव तलस्वामिमहोदयम् ॥

किं तत्र कारणं देव तलो येन निपातितः

॥२॥

कोऽसौ तलः समाख्यातः किंवीर्यः किंपरायणः ॥

कस्मात्स्थानात्समुत्पन्नः कथं जातश्च मे वद

॥३॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि रहस्यं पापनाशनम् ॥

यन्न कस्यचिदाख्यातं तत्ते वक्ष्याम्य शेषतः

॥४॥

देवा अपि न जानंति तलसोत्पत्तिकारणम् ॥

पूर्वं कृतयुगे देवि गोविन्देति प्रकीर्तितः

॥५॥

त्रेतायां वामनः स्वामी स्तुतिस्वामी तृतीयके ॥

कलौ युगे महादेवि तलस्वामी प्रकीर्तितः

॥६॥

तथा तप्तोदकस्वामी तस्य नामांतरं प्रिये ॥

अधुना संप्रवक्ष्यामि तलोत्पत्तिं तव प्रिये

॥७॥

आसीन्महेन्द्रनामा च दानवो रौद्ररूपधृक् ॥

कोटिवर्षाणि तेनैव तपस्तप्तं पुरा प्रिये

॥८॥

स तपोबलमाविष्टो जिग्ये देवान्सवासवान् ॥

जित्वा देवांस्ततः सर्वांस्ततः काले समागतः

॥९॥

युद्धं स प्रार्थयामास मया सार्द्धं सुभीषणम् ॥

ततोऽभवन्महायुद्धं ब्रह्माण्डक्षयकारकम्

॥१०॥

ततः कोपान्महायुद्धे मम देहाद्वरानने ॥

ज्वाला तत्र समुत्पन्ना तन्मध्ये स तलोऽभवत्

॥११॥

तेन दृष्टो महेन्द्रोऽसौ गर्जन्गिरिगुहाश्रयः

॥१२॥

कथं गर्जसि हे मूढ युद्धं कुरु मया सह ॥

इत्युक्ते तत्र देवेशि तेन युद्धमवर्तत

॥१३॥

तत्र प्रवर्त्तिते युद्धे तलमाहेन्द्रयोस्तयोः

॥१४॥

रुद्रवीर्यस्य युक्तेन तलेनोदारकर्मणा ॥

मल्लयुद्धेन बलिना महेन्द्रो विनिपातितः

॥१५॥

ततस्तं पतितं दृष्ट्वा विस्मयं स तलो गतः ॥

गतप्राणं तदा ज्ञात्वा हर्षान्नृत्यमथाकरोत्

॥१६॥

तस्मिन्संनृत्यमाने तु सर्वे स्थावरजंगमम् ॥

चकंपे तु वरारोहे प्रभावात्तस्य वीर्यतः

॥१७॥

ततो भारभराकान्ता धरणी तलपीडिता ॥

अतीवभयसंत्रस्ताः सदेवासुरमानुषाः

॥१८॥

क्षुभिता गिरयः सर्वे विद्रुताश्च महार्णवाः ॥

तरवो निधनं जग्मुर्नद्यो वाहांश्च तत्यजुः

॥१९॥

गतप्रभावाः सूर्याद्या ज्योतींषि न विरेजिरे ॥

त्रैलोक्यं व्याकुलीभूतं तलनृत्यप्रभावतः

॥२०॥

ततो देवगणाः सर्वे शरणं रुद्रमाययुः ॥

वृत्तं यथावत्कथितं ततो रुद्र उवाच तान्

॥२१॥

अवध्यो मे तलो देवाः पुत्रत्वे हि प्रतिष्ठितः ॥

एवमुक्त्वा हृषीकेशं प्रभासक्षेत्रवासिनम्

॥२२॥

स्तुतिस्वामीतिनामानं स्थितं दुर्वाससः पुरः ॥

प्रभासक्षेत्रसामीप्ये पूर्वभागे प्रतिष्ठितम्

॥२३॥

तप्तोदकुंडसामीप्ये तत्र गच्छत भोः सुराः ॥

कल्पेकल्पे तु तेनैव विध्यतेऽसौ हि दानवः

॥२४॥

एवमुक्ते तदा देवाः प्रभासं क्षेत्रमागताः ॥

तत्र ते विबुधा जग्मुर्यत्र तप्तोदकाधिपः

॥२५॥

दृष्ट्वा नारायणं तत्र देवाः श्रद्धासमन्विताः ॥

तुष्टुवुः परया भक्त्या देवदेवं जनार्द्दनम्

॥२६॥

वैकुंठ त्राहि नो देवांस्तलेनोच्चाटिता वयम् ॥

महेन्द्रक्रोधसंभूतरुद्रतेजोद्भवेन वै

॥२७॥

अस्माभी रुद्रसामीप्ये कार्यं सर्वं निवेदितम् ॥

ततः प्रस्थापिताः सर्वे रुद्रेण परमेष्ठिना ॥

तव पार्श्वे महादेव नस्त्वं देव गतिर्भव

॥२८॥

इति श्रुत्वा वचस्तेषां देवदेवो जनार्द्दनः ॥

दानवस्यवधार्थाय देवानां रक्षणाय च ॥

चक्रे यत्नं महाबाहुः प्रभासक्षेत्रवल्लभः

॥२९॥

समाहूय तदा दैत्यं प्रभासक्षेत्रमध्यतः ॥

युद्धं चक्रे ततो देवि विश्वप्रलयकारकम्

॥३०॥

ततस्तु देवाः सर्वे च स्वसैन्यपरिवारिताः ॥

चक्रुर्युद्धं च दैत्येन सुमहल्लोमहर्षणम्

॥३१॥

ततः पर्वतसंकाशं दृष्ट्वा दैत्यं महाबलम् ॥

उवाच चपलापांगो गरुडकृतवाहनः

॥३२॥

अहो दैत्य महाबाहो मल्लयुद्धं ददस्व मे ॥

त्वद्बाहुयुगलं दृष्ट्वा न युद्धे वांछितं मम

॥३३॥

नारायणवचः श्रुत्वा करमुद्यम्य दानवः ॥

अभ्यधावत्तदा दैत्यः कालान्तकसमप्रभः

॥३४॥

ततः प्रवर्तितं युद्धमन्योन्यं जयकांक्षिणोः ॥

जंघाभ्यां पादबन्धेन बाहुभ्यां बाहुबंधनम्

॥३५॥

कंठेन बन्धयन्कंठमुदरेणोदरं तथा ॥

एतस्मिन्नन्तरे देवाः सभयाः संबभूविरे

॥३६॥

ततः पीडासमाक्रांतो विष्णुः संस्मरते हरम् ॥

तत्क्षणादागतो रुद्रः किं करोमि महाबलः

॥३७॥

विष्णुरुवाच

श्रांतोऽहं देवदेवेश मल्लयुद्धेन शंकर ॥

तप्तोदकं कुरुष्वेह श्रमनाशाय सांप्रतम्

॥३८॥

ततस्तलं हनिष्यामि क्षण मात्रेण भैरवम्

॥३९॥

ईश्वर उवाच

आदौ कृतयुगे कृष्ण उमया यत्कृतं पुरा ॥

ऋषीणां श्रमनाशार्थं तप्तोदं तत्र निर्मितम्

॥४०॥

तद्दैत्यपापमाहात्म्यात्पुनः शीतलतां गतम् ॥

पुनस्तदुष्णतां नीतं ततः कल्पांतसंस्थितौ

॥४१॥

एवमुक्त्वा तदा देवं वीक्षांचक्रे महेश्वरः ॥

तृतीय लोचनेनैव ज्वालामालोपशोभिना

॥४२॥

तेन ज्वालासमूहेन व्याप्तं कुण्डं चतुर्दिशम् ॥

तप्तोदकुण्डमभवत्तेन ख्यातं धरातले

॥४३॥

ततो नारायणेनेह क्षालितं गात्रसुत्तमम् ॥

क्षालनात्तस्य देवस्य श्रमो नाशमुपागमत्

॥४४॥

ततस्तुष्टमना देवस्तीर्थानां दशकोटिकाः ॥

स स्मृत्वा तत्र विधिवत्क्षिप्त्वा स्नात्वा वरानने

॥४५॥

ततश्चक्रे महायुद्धं तलेनातिभयंकरम् ॥

जघान स तलं दैत्यं मुष्टिघातेन मस्तके

॥४६॥

तस्मिन्प्रवृत्ते तुमुले तु युद्धे चकंपिरे भूभिसमेतलोकाः ॥

वित्रस्तदेवा न दिशो विरेजुर्महांधकारावृतमूर्छितं जगत्

॥४७॥

नष्टाश्च सिद्धा जगतोऽस्य शांतिं करोतु वै पापविनाशनो हरिः ॥

त्राहीति देवेशि महर्षिसंघा भूतानि भीतानि तथा वदन्ति

॥४८॥

ततो वै मल्लयुद्धेन पातितो भुवि दानवः ॥

कंठमाक्रम्य पादेन खङ्गेन परिपीडितः

॥४९॥

हास्यं चकार दैत्योऽथ विष्णुनाऽऽक्रांतकंधरः ॥

तमाह पुण्डरीकाक्ष किमेतद्धास्यकारणम्

॥५०॥

वृद्धौ हर्षमवाप्नोति क्षये भवति दुःखितः ॥

इत्येषा लौकिकी गाथा तत्ते दैत्य विपर्ययः

॥५१॥

इत्युक्तस्तु तदा दैत्यः प्रत्युवाच जनार्द्दनम् ॥

अग्निष्टोमादिभिर्यज्ञैवेदाभ्यासैरनेकधा

॥५२॥

नित्योपवासनियमैः स्नानदानैर्जपादिभिः ॥

निर्मलैर्योगयुक्तैश्च प्राप्यते यत्परं पदम्

॥५३॥

तन्मया दुष्टभावेन प्राप्तं विष्णोः परं पदम् ॥

इत्युक्ते भगवान्विष्णुर्वरदानपरोऽभवत्

॥५४॥

उवाच परमं वाक्यं तलं दैत्याधिनायकम् ॥

वरं वरय दैत्येंद्र यत्ते मनसि संस्थितम्

॥५५॥

इति विष्णोर्वचः श्रुत्वा प्रार्थयामास दानवः ॥

ममाख्या वर्त्तते लोके तथा कुरु महीधर

॥५६॥

मार्गमासे तु शुक्लायामेकादश्यां समाहितः ॥

यस्त्वां पश्यति भावेन तस्य पापं विनश्यतु

॥५७॥

एवं भविष्यतीत्युक्त्वा देवो हर्षमुपागतः ॥

नानादुंदुभयो नेदुः पुष्पवर्षं पपात च

॥५८॥

विष्णोर्मूर्ध्नि महाभागे लोकाः स्वस्था बभूविरे ॥

ततो देवगणाः सर्वे नृत्यंति च मुदान्विताः ॥

वदंति हर्षसंयुक्ता नारायणपरायणाः

॥५९॥

एतत्तीर्थं महातीर्थं सर्वपापप्रणाशनम् ॥

श्रमापनोदनं विष्णोर्ब्रह्महत्यादिशोधनम्

॥६०॥

स्थितो नारायणस्तत्र भैरवस्तत्र शंकरः ॥

क्षेत्रपालस्वरूपेण कालमेघेति विश्रुतः

॥६१॥

तस्य यात्राविधिं वक्ष्ये गत्वा तत्र शुचिर्नरः ॥

स्मरेद्विष्णुं महादेवि तलस्वामीति यः श्रुतः

॥६२॥

स्तुयाद्विष्णुं महादेवि इदं विष्णुऋचा प्रिये ॥

सहस्रशीर्षामंत्रेण तर्पणादि प्रकारयेत्

॥६३॥

एवं स्नात्वा विधानेन दत्त्वा चार्घ्यं जनार्द्दने ॥

संपूज्य गंधपुष्पैश्च वस्त्रैः पुष्पानुलेपनैः

॥६४॥

मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥

कर्पूरोशीरमिश्रेण मृगनाभियुतेन च

॥६५॥

वस्त्रैः संवेष्टयेत्पश्चाद्दद्यान्नैवेद्यमुत्तमम् ॥

धर्मश्रवणसंयुक्तं कार्यं जागरणं ततः

॥६६॥

वृषभस्तत्र दातव्यः सुवर्णं वस्त्रयुग्मकम् ॥

विप्राय वेदयुक्ताय श्रोत्रियाय प्रदापयेत्

॥६७॥

उपवासं ततः कुर्यात्तस्मिन्नहनि भामिनि ॥

रुक्मिणीं च प्रपश्येत नमस्कृत्य जनार्द्दनम्

॥६८॥

एवं कृत्वा नरो भक्त्या लभते जन्मजं फलम् ॥

सर्वेषामेव यज्ञानां दानानां लभते फलम्

॥६९॥

तथा च सर्वतीर्थानां व्रतानां लभते फलम् ॥

उद्धरेत्तु पितुर्वर्गं मातृवर्गं तथैव च

॥७०॥

जन्मप्रभृतिपापानां कृतानां नाशनं भवेत् ॥

न दुःखं च न दारिद्र्यं दुर्भगत्वं न जायते

॥७१॥

सप्त जन्मांतरं यावत्तलस्वामिप्रदर्शनात् ॥

सुवर्णानां सहस्रेण ब्राह्मणे वेदपारगे ॥

दत्तेन यत्फलं देवि तत्कुण्डे स्नानतो लभेत्

॥७२॥

एवं तलस्वामिचरित्रमुत्तमं श्रुतं पुरा सिद्धमहर्षिसंघैः ॥

श्रुत्वा प्रभावं तलदेवसन्निधौ प्राप्नोति सर्वं मनसा यदीप्सितम्

॥७३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तलस्वामिमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरत्रिशततमो ऽध्यायः ॥ ३३४ ॥