जमदग्नीश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि जमदग्नीश्वरं शिवम् ॥
वृद्धप्रभाससामीप्ये नातिदूरे व्यवस्थितम्
॥१॥सर्वपापोपशमनं स्थापितं जमदग्निना ॥
तं दृष्ट्वा मानवो देवि मुच्यते च ऋणत्रयात्
॥२॥स्नात्वा निधानवाप्यां च संपूज्य प्राप्नुयाद्धनम् ॥
निधानं पांडवैर्लब्धं तत्र स्थाने पुरा प्रिये
॥३॥निधानेनैव सा ख्याता वापी त्रैलोक्यवंदिता
॥४॥तस्यां स्नात्वा महादेवि दुर्भगा सुभगा भवेत् ॥
लभते वाञ्छितान्कामानिति प्रोक्तं मया तव
॥५॥इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जमदग्नीश्वरमाहात्म्यवर्णनंनाम सप्तनवत्युत्तरशततमोऽध्यायः ॥ १९७ ॥