मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३४३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 343

कपिलाषष्ठीव्रतविधानमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि कपिलेश्वरमुत्तमम् ॥

शीराभूषणपूर्वेण कोटितीर्थाच्च पश्चिमे

॥१॥

जरद्गवेशाद्दक्षिणे समुद्रोत्तरतस्तथा ॥

एतद्वै कापिलं क्षेत्रं नापुण्यैः प्राप्यते नरैः

॥२॥

कपिलेन पुरा देवि यत्र तप्तं तपो महत् ॥

वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम्

॥३॥

समाहूता तत्र देवी कपिलधारा महानदी ॥

समुद्रमध्ये साऽद्यापि पुण्यवद्भिः प्रदृश्यते

॥४॥

तत्र स्नात्वा महादेवि कपिलाषष्ठ्यां विशेषतः ॥

कपिलां दापयेत्तत्र गोकोटिफलभाग्भवेत्

॥५॥

सर्वेषां चैव पापानां प्रायश्चित्तमिदं स्मृतम् ॥

कपिलेश्वरं तु संपूज्य कन्याकोटिफलं लभेत्

॥६॥

देव्युवाच

आश्चर्यं मम देवेश कपिलषष्ठ्या महेश्वर ॥

विधानं श्रोतुमिच्छामि दानमन्त्रादि पूर्वकम्

॥७॥

ईश्वर उवाच

जन्मजीवितमध्ये तु यद्येका लभ्यते नरैः ॥

संयोगयुक्ता सा षष्ठी तत्किं देवि ब्रवीम्यहम्

॥८॥

प्रौष्ठपद्यसिते पक्षे षष्ठ्यामंगारको यदि ॥

व्यतीपातश्च रोहिण्यां सा षष्ठी कपिला स्मृता

॥९॥

तत्र क्षेत्रे नरः स्नात्वा अथवार्कस्थले शुभे ॥

मृदा शुक्ल तिलैश्चैव कपिलासंगमे शुभे

॥१०॥

कृतस्नानजपः पश्चात्सूर्यायार्घ्यं निवेदयेत् ॥

रक्तचंदनतोयेन करवीरयुतेन च ॥

कृत्वार्घपात्रं शिरसि मंत्रेणानेन दापयेत्

॥११॥

नमस्त्रैलोक्यनाथाय उद्भासितजगत्त्रय ॥

वेदरश्मे नमस्तुभ्यं गृहाणार्घ्यं नमोऽस्तु ते

॥१२॥

सूर्यं प्रदक्षिणीकृत्य संपूज्य कपिलेश्वरम् ॥

उपलिप्ते शुभे देशे पुष्पाक्षतविभूषिते

॥१३॥

स्थापयेदव्रणं कुम्भं चन्दनोदकपूरितम् ॥

पंचरत्नसमायुक्तं दूर्वापुष्पाक्षतान्वितम्

॥१४॥

रक्तवस्त्रयुगच्छन्नं ताम्रपात्रेण संयुतम् ॥

रथो रुक्मफलस्यैव एकचित्रविचित्रितः

॥१५॥

सौवर्णपलसंयुक्तां मूर्तिं सूर्यस्य कारयेत् ॥

कुंभस्योपरि संस्थाप्य गंधपुष्पैः समर्चयेत्

॥१६॥

कपिलेश्वरसान्निध्ये मण्डपे होमसंस्कृते ॥

आदित्यं पूजयेद्देवं नामभिः स्वैर्यथोदितैः

॥१७॥

आदित्यभास्कर रवे भानो स्वयं दिवाकर ॥

प्रभाकर नमस्तुभ्यं ससारान्मां समुद्धर

॥१८॥

भुक्तिमुक्तिप्रदो यस्मात्तस्माच्छांतिं प्रयच्छ नः

॥१९॥

प्रार्थनामन्त्रः ॥

नमोनमस्ते वरद ऋक्सामयजुषांपते ॥

नमोऽस्तुविश्वरूपाय विश्वधाम्ने नमोऽस्तु ते

॥२०॥

अमृतं देवि ते क्षीरं पवित्रमिह पुष्टिदम् ॥

त्वत्प्रसादात्प्रमुच्यंते मनुजाः सर्वपातकैः

॥२१॥

ब्रह्मणोत्पादिते देवि वह्निकुण्डान्महाप्रभे ॥

नमस्ते कपिले पुण्ये सर्वदेवनमस्कृते

॥२२॥

सर्वदेवमये देवि सर्वतीर्थमये शुभे ॥

दातारं पूजयानं मां ब्रह्मलोकं नय स्वयम्

॥२३॥

पूजामंत्रः ॥

एवं संपूज्य कपिलां कुम्भस्थं च दिवाकरम् ॥

ब्राह्मणे वेदविदुष उभयं प्रतिपादयेत्

॥२४॥

व्यासाय सूर्यभक्ताय मंत्रेणानेन दापयेत्

॥२५॥

दिव्यमूर्त्तिर्जगच्चक्षु र्द्वादशात्मा दिवाकरः ॥

कपिलासहितो देवो मम मुक्तिं प्रयच्छतु

॥२६॥

यस्मात्त्वं कपिले पुण्या सर्वलोकस्य पावनी ॥

प्रदत्ता सह सूर्येण मम मुक्तिप्रदा भव

॥२७॥

पलेन दक्षिणा कार्या तदर्धार्धेन वा पुनः ॥

शक्तितो दक्षिणायुक्तां तां धेनुं प्रतिपादयेत्

॥२८॥

योऽनेन विधिना कुर्या त्षष्ठीं कपिलसंज्ञिताम् ॥

सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः

॥२९॥

यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् ॥

तत्फलं सर्वमाप्नोति यः षष्ठीं कपिलां चरेत्

॥३०॥

कपिलाकोटिसहस्राणि कपिलाकोटिशतानि च ॥

सूर्यपर्वणि यद्दत्त्वा तत्फलं कोटिशो भवेत्

॥३१॥

कोटिगोरोम संख्यानि वर्षाणि वरवर्णिनि ॥

तावत्स वसते स्वर्गे यः षष्ठीं कपिलां चरेत्

॥३२॥

ज्ञानतोऽज्ञानतो वापि यत्पापं पूर्वसंचितम् ॥

तत्सर्वं नाशमायाति इत्याह कपिलो मुनिः

॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपि लधाराकपिलेश्वरमाहात्म्ये कपिलाषष्ठीव्रतविधानमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४३ ॥