मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 80

तस्यैव पूर्वदिग्भागे लिंगं पातकनाशनम्

ईश्वर उवाच

तस्यैव पूर्वदिग्भागे लिंगं पातकनाशनम् ॥

गौतमेश्वरनामाढ्यं दैत्यसूदनपश्चिमे

॥१॥

धनुषां पंचके देवि संस्थितं सर्वकामदम् ॥

शल्येनाराधितं यद्वै मद्रराजेन भामिनि

॥२॥

ततः कृतं तपश्चोग्रं समाराध्य महेश्वरम् ॥

अन्योऽप्येवं नरो यस्तु तं समाराधयिष्यति

॥३॥

स प्राप्स्यति परां सिद्धिं यथा शल्यो महामनाः ॥

चैत्र शुक्लचतुर्द्दश्यां स्नापयेत्पयसा तु यः

॥४॥

गंधोदकेन च ततः पूजयेत्कुसुमोत्तमैः ॥

तथैव विधिवद्भक्त्या सोऽश्वमेधफलं लभेत्

॥५॥

वाचा कृतं च यत्पापं मनसा कर्मणाऽथ वा ॥

तत्सर्वं नश्यते देवि तस्य लिंगस्य दर्शनात्

॥६॥

इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्यवर्णनंनामाशीतितमोऽध्यायः ॥ ८० ॥