ततो गच्छेन्महादेवि तस्य दक्षिणतः स्थितम्
ईश्वर उवाच
ततो गच्छेन्महादेवि तस्य दक्षिणतः स्थितम् ॥
ईशाने लक्ष्मणेशाच्च धनुषां षोडशे प्रिये
॥१॥अनन्तेश्वरनामानमनन्तेन प्रतिष्ठितम् ॥
नागराजेन देवेशि ज्ञात्वा क्षेत्रं तु पावनम्
॥२॥यस्तु तं पूजयेद्देवि पंचम्यां फाल्गुने सिते ॥
पञ्चोपचारविधिना जिताहारो जितेन्द्रियः
॥३॥न तं दशंति फणिनो दश वर्षाणि पंच च ॥
विषं न क्रमते देवि देहे त्वचरमेव वा
॥४॥तस्मात्तं पूजयेद्यत्नात्पंचम्यां च विशेषतः
॥५॥तत्रानंतव्रतं कार्यं मधुपायससंयुतम् ॥
पायसं मधुसंयुक्तं देयं विप्राय भोजनम्
॥६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽनन्तेश्वरमाहात्म्यवर्णनंनामैकषष्ट्युत्तरशततमोऽध्यायः ॥ १६१ ॥