ततो गच्छेन्महादेवि महादेवीं महाप्रभाम्
ईश्वर उवाच
ततो गच्छेन्महादेवि महादेवीं महाप्रभाम् ॥
बलातिबलदैत्यघ्नीं नाम्नेति प्रथितां क्षितौ
॥१॥अनादिनिधनां देवीं तत्र क्षेत्रे व्यवस्थिताम् ॥
कोटिभूतपरीवारां सर्वदैत्यनिबर्हिणीम्
॥२॥देव्युवाच
बलातिबलदैत्यघ्नी कथमुक्ता त्वया प्रभो ॥
बलातिबलनामानौ कथं दैत्यौ निपातितौ
॥३॥कुत्र तिष्ठति सा देवी किंप्रभावा महेश्वर ॥
माहात्म्यमखिलं तस्याः सर्वं विस्तरतो वद
॥४॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशनीम् ॥
यां श्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः
॥५॥आसीद्रक्तासुरोनाम महिषस्य सुतो बली ॥
महाकायो महाबाहुर्हिरण्याक्ष इवापरः
॥६॥बलातिबल नामानौ तस्य पुत्रौ बभूवतुः ॥
तौ विजित्य सुरान्सर्वान्देवेन्द्राग्निपुरोगमान्
॥७॥त्रैलोक्येऽस्मिन्निरातंकौ चक्रतू राज्यमञ्जसा ॥
तयोः सेना मुखे वीरास्त्रयस्त्रिंशत्प्रकीर्तिताः
॥८॥रौद्रात्मानो महायोधाः सहस्राक्षौहिणीमुखाः ॥
सिंहस्कन्धा महाकाया दुरात्मानो महाबलाः
॥९॥धूम्राक्षो भीमदंष्ट्रश्च कालवश्यो महाहनुः ॥
ब्रह्मघ्नो यज्ञकोपश्च स्त्रीघ्नः पापनिकेतनः
॥१०॥विद्युन्माली च बन्धूकः शंकुकर्णो विभावसुः ॥
देवांतको विकर्मा च दुर्भिक्ष क्रूर एव च
॥११॥हयग्रीवोऽश्वकर्णश्च केतुमान्वृषभो द्विजः ॥
शरभः शलभो व्याघ्रो निकुंभो मणिको बकः
॥१२॥शूर्पको विक्षरो माली कालो दण्डककेरलः ॥
एते दैत्या महाकायास्तयोः सेनाधिकारिणः
॥१३॥एवं तैः पृथिवी व्याप्ता पञ्चाशत्कोटि विस्तरा ॥
एवं ज्ञात्वा तदा देवा भयेनोद्विग्नमानसाः
॥१४॥सर्वैर्देवर्षिभिः सार्धं जग्मुस्ते हिमवद्वनम् ॥
स्तोत्रेणानेन तां देवीं तुष्टुवुः प्रयतास्तदा
॥१५॥देवा ऊचुः
जयाक्षरे जयाऽनंते जयाऽव्यक्ते निरामये ॥
जय देवि महामाये जय देवर्षिवंदिते
॥१६॥जय विश्वेश्वरे गंगे जय सर्वार्थसिद्धिदे ॥
जय ब्रह्माणि कौमारि जय नारायणीश्वरि
॥१७॥जय ब्रह्माणि चामुंडे जयेन्द्राणि महेश्वरि ॥
जय मातर्महालक्ष्मि जय पार्वति सर्वगे
॥१८॥जय देवि जगत्सृष्टे जयैरावति भारति ॥
जयानंते जय जये जय देवि जलाविले
॥१९॥जयेशानि शिवे शर्वे जय नित्यं जयार्चिते ॥
मोक्षदे जय सर्वज्ञे जय धर्मार्थकामदे
॥२०॥जय गायत्रि कल्याणि जय सह्ये विभावरि ॥
जय दुर्गे महाकालि शिव दूति जयाऽजये
॥२१॥जय चण्डे महामुण्डे जय नन्दे शिवप्रिये ॥
जय क्षेमंकरि शिवे जय कल्याणि रेवति
॥२२॥जयोमे सिद्धिमांगल्ये हरसिद्धे नमोस्तु ते ॥
जयापर्णे जयानन्दे महिषाऽसुरघातिनि
॥२३॥जय मेधे विशालाक्षि जयानंगे सरस्वति ॥
जयाशेषगुणावासे जयावर्ते सुरान्तके
॥२४॥जय संकल्पसंसिद्धे जय त्रैलोक्यसुंदरि ॥
जय शुंभनिशुंभघ्ने जय पद्मेऽद्रिसंभवे
॥२५॥जय कौशिकि कौमारि जय वारुणि कामदे ॥
नमोनमस्ते शर्वाणि भूयोभूयो जयाम्बिके
॥२६॥त्राहि नस्त्राहि नो देवि शरण्ये शरणागतान्
॥२७॥सैवं स्तुता भगवती देवैः सर्वैर्वरानने ॥
आत्मानं दर्शयामास भाभासितदिगन्तरम्
॥२८॥नमस्कृत्य तु तामूचुः सुरास्ते भयनाशनीम् ॥
बलातिबलनामानौ हत्वा दैत्यौ महाबलौ ॥
तेषां चैव महत्सैन्यं पाह्यतो महतो भयात्
॥२९॥तेषां तद्वचनं श्रुत्वा दत्त्वा तेभ्योऽभयं ततः ॥
बभूवाद्भुतरूपा सा त्रिनेत्रा चेन्दुशेखरा
॥३०॥सिंहारूढा महादेवि नानाशस्त्रास्त्रधारिणी ॥
सुवक्त्रा विंशतिभुजा स्फूर्जद्विद्युल्लतोपमा
॥३१॥ततों ऽबिका निनादोच्चैः साट्टहासं मुहुर्मुहुः
॥३२॥तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥
प्रकंपिताखिला चोर्वी सरिद्वारिधिमेखला
॥३३॥शैलतुंगस्तनी रम्या प्रमदेव भयातुरा ॥
तेऽपि तत्रासुराः प्राप्ताश्चतुरंगबलान्विताः
॥३४॥सम्यग्विदितविक्रान्ताः कालान्तकयमोपमाः ॥
रक्षो दानवदैत्याश्च पाताले येऽपि संस्थिताः
॥३५॥ते सर्व एव दैत्येन्द्राः कोटिशः समुपागताः ॥
ततोऽभवन्महायुद्धं देव्यास्तत्रासुरैः सह
॥३६॥बभूव सर्वब्रह्माण्डे ह्यकाण्डक्षयकारणम् ॥
अक्षौहिणीसहस्राणि त्रयस्त्रिंशत्सुरेश्वरि
॥३७॥एकविंशत्सहस्राणि शतान्यष्टौ च सप्ततिः ॥
सानुगानां सयोधानां रथानां वातरंहसाम्
॥३८॥हत्वा सा लीलया देवी निन्ये क्षयमनाकुला
॥३९॥ततो देव्या हतानां च दानवानां महौजसाम् ॥
गजवाजिरथानां च शरीरैरावृता मही
॥४०॥कबंधनृत्यसंकुले स्रवद्वसास्थिकर्द्दमे ॥
रणाजिरे निशाचरास्ततो विचेरुरूर्जिताः
॥४१॥शृगाल गृधवायसाः परं प्रपातमादधुः ॥
क्वचित्परे निशाचराः प्रपीतशोणितोत्कटाः ॥
प्रतर्प्य चात्मनः पितॄन्समर्चयंस्तथा ऋषीन्
॥४२॥गजान्नरांस्तुरंगमान्बभक्षिरे सुनिर्घृणाः ॥
रथोडुपैस्तथा परे तरंति शोणितार्णवम्
॥४३॥इति प्रगाढसंगरे सुरारिसंघसंकुले ॥
विराजतेऽम्बिका धनुः शराऽसिशूलधारिणी
॥४४॥गजेन्द्रदर्पमर्द्दनी तुरंगयूथपोथिनी ॥
सुरारिसैन्यनाशिनी इतस्ततः प्रपश्यती
॥४५॥सिंहाष्टकयुक्ते महा प्रेतके भूधरहंसशुभ्रोज्जलद्भास्वराभे वृषभसमाने मानिनीमथो ते दैत्येन्द्रवीराः पश्यंतः समुद्भूतरोषास्ततोऽपि जग्मुर्नदन्तो रवन्तो रवं मेघनादाः
॥४६॥हाहाकारं विकुर्वाणा हन्यमानास्ततोऽसुराः ॥
केचित्समुद्रं विविशुरद्रीन्केचिच्च दानवाः
॥४७॥केचिल्लुञ्चितमूर्धानो जाल्मा भूत्वा वनेऽवसन् ॥
दयाधर्मं ब्रुवाणाश्च निर्ग्रंथव्रतमास्थिताः
॥४८॥केचित्प्राणपरा भीताः पाखण्डाश्रममास्थिताः ॥
हेतुवादपरा मूढा निःशौचा निरपेक्षकाः
॥४९॥ते चाद्यापीह दृश्यन्ते लोके क्षपणकाः किल ॥
तथैव भिन्दकाश्चान्ये शिवशास्त्रबहिष्कृताः
॥५०॥केचित्कौलव्रता ह्यस्मिन्दृश्यन्ते सकलैर्जनैः ॥
सुरास्त्रीमांसभूयिष्ठा विकर्मस्थाश्च लिङ्गिनः
॥५१॥प्रायो नैष्कृतिकाः पापा जिह्वोपस्थपरायणा ॥
एवं देव्या हताः सर्वे बलातिबलसंयुताः
॥५२॥प्रभासं क्षेत्रमासाद्य संस्थिता सा तदाम्बिका ॥
योगिनीनां चतुःषष्ट्या संयुता पापनाशिनी ॥
बलातिबलनाशीति प्रभासे प्रथिता क्षितौ
॥५३॥देव्युवाच
चतुःषष्टिस्त्वया प्रोक्ता योगिन्यो याः सुरेश्वर ॥
तासां नामानि मे ब्रूहि सर्वपापहराणि च
॥५४॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि योगिनीनां महोदयम् ॥
सर्वरक्षाकरं दिव्यं महाभयविनाशनम्
॥५५॥आदौ तत्र महालक्ष्मीर्नंदा क्षेमंकरी तथा ॥
शिवदूती महाभद्रा भ्रामरी चन्द्रमण्डला
॥५६॥रेवती हरसिद्धिश्च दुर्गा विषमलोचना ॥
सहजा कुलजा कुब्जा मायावी शांभवी क्रिया
॥५७॥आद्या सर्वगता शुद्धा भावगम्या मनोतिगा ॥
विद्याविद्या महामाया सुषुम्ना सर्वमंगला
॥५८॥ॐकारात्मा महादेवि वेदार्थजननी शिवा ॥
पुराणान्वीक्षिकी दीक्षा चामुण्डा शंकरप्रिया
॥५९॥ब्राह्मी शांतिकरी गौरी ब्रह्मण्या ब्राह्मणप्रिया ॥
भद्रा भगवती कृष्णा ग्रहनक्षत्रमालिनी
॥६०॥त्रिपुरा त्वरिता नित्या सांख्या कुंडलिनी ध्रुवा ॥
कल्याणी शोभना निरया निष्कला परमा कला
॥६१॥योगिनी योगसद्भावा योगगम्या गुहाशया ॥
कात्यायनी उमा शर्वा ह्यपर्णेति प्रकीर्तिता
॥६२॥चतुःषष्टिर्महादेवि एवं ते परिकीर्तिताः ॥
स्तोत्रेणानेन दिव्येन भक्त्या यः स्तौति चंडिकाम्
॥६३॥तं पुत्रमिव शर्वाणी सर्वापत्स्वभिरक्षति ॥
चतुर्दश्यामथाष्टम्यां नवम्यां च विशेषतः
॥६४॥उपवासैकभक्तेन तथैवायाचितेन च ॥
गृहीतनियमा देवि ये जपंति च चंडिकाम्
॥६५॥वर्षार्धं वर्षमेकं वा सिद्धास्ते तत्त्वचारिणः ॥
आश्वयुक्छुक्लपक्षे च मन्वादिष्वष्टकासु च
॥६६॥कृत्वा महोत्सवं देवीं यजेच्छ्रेयोऽभिवृद्धये ॥
पादुके धारयेद्देव्या दुर्गाभक्तो हिरण्मये
॥६७॥प्रमादविघ्नशांत्यर्थं क्षुरिकां च सदा पुमान् ॥
पशुमांसासवैश्चैवमासुरं भावमाश्रिताः
॥६८॥ये यजन्त्यम्बिकां ते स्युर्दैत्या ऐश्वर्यभोगिनः ॥
देवत्वं सात्त्विका यांति सात्त्विकीं भक्तिमास्थिताः
॥६९॥एतत्ते कथितं देवि माहात्म्यं पापनाशनम् ॥
बलातिबलनाशिन्या देव्या सर्वार्थसाधकम् ॥
प्रभासक्षेत्रसंस्थायाः संक्षेपात्कीर्तिवर्धनम्
॥७०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलातिबलदैत्यघ्नीमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरशततमोऽध्यायः ॥ ११९ ॥