मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १९६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 196

जलप्रभासमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि प्रभासं जलसंस्थितम् ॥

वृद्धप्रभासाद्दक्षिणतो नातिदूरे व्यवस्थितम्

॥१॥

तस्यैव देवि देवस्य शृणु माहात्म्यमुत्तमम्

॥२॥

जामदग्न्येन रामेण यदा क्षत्त्रवधः कृतः ॥

तदाऽस्य परमा जाता घृणा मनसि भामिनि

॥३॥

ततस्त्वाराधयामास महादेवं सुरेश्वरम् ॥

उग्रं तपः समास्थाय बहून्वर्ष गणान्प्रिये

॥४॥

ततस्तुष्टो महादेवस्तस्य प्रत्यक्षतां गतः ॥

अब्रवीद्वरदस्तेऽहं वरं वरय सुव्रत

॥५॥

राम उवाच

यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥

दर्शयस्व स्वकं लिंगं यज्ञे वज्रेण छादितम्

॥६॥

घृणा मे महती जाता हत्वेमान्क्षत्रियान्बहून् ॥

दर्शनात्तव लिंगस्य येन मे नश्यते घृणा

॥७॥

तथा मे पातकं सर्वं प्रसादात्तव शंकर

॥८॥

शंकर उवाच

मम लिंगं सहस्राक्ष उत्थितं तु पुनःपुनः ॥

वज्रेणाच्छादयत्येव भयेन महता वृतः

॥९॥

न तेऽहं दर्शनं यास्ये लिंगरूपी कदाचन

॥१०॥

यन्मां वदसि घृणया वृतोऽहं पातकेन तु ॥

तत्तेऽहं नाशयिष्यामि स्पर्शनात्तु द्विजोत्तम

॥११॥

अस्मिञ्जलाश्रये पुण्ये जलमध्ये महामते ॥

उत्थास्यति महालिंगं तस्य त्वं दर्शनं कुरु

॥१२॥

गमिष्यति घृणा सर्वा निष्पापस्त्वं भविष्यसि ॥

उक्त्वैवमुदतिष्ठच्च जलमध्याद्वरानने

॥१३॥

जलप्रभासनामास्य ततो जातं धरातले ॥

तस्यालं स्पर्शनाद्देवि शिवलोकं व्रजेन्नरः

॥१४॥

एकं भोजयते योऽत्र ब्राह्मणं शंसितव्रतम् ॥

भोजितोऽहं भवेत्तेन सपत्नीको न संशयः

॥१५॥

एषा जलप्रभासस्य संभूतिस्ते मयोदिता ॥

श्रुता पापोपशमनी सर्वकामफलप्रदा

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जलप्रभासमाहात्म्यवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः ॥ १९६ ॥