मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १८६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 186

स्थानमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि नागस्थानमनुत्तमम् ॥

मंकीशात्पश्चिमे भागे संगमत्रितयं गतम्

॥१॥

पापघ्नं सर्वजंतूनां पातालविवरं महत्

॥२॥

बलभद्रः पुरा देवि श्रुत्वा कृष्णस्य पंचताम् ॥

भल्लतीर्थे तु भल्लेन ततः प्रभासमागतः

॥३॥

क्षेत्रं महाप्रभावं हि ज्ञात्वा सर्वार्थसिद्धिदम् ॥

यादवानां क्षयं कृत्वा ततो वैराग्यमेयिवान्

॥४॥

शेषनागेशरूपेण निष्क्रम्य च शरीरतः ॥

गच्छन्गच्छंस्तदा प्राप्य तीर्थं त्रैसंगमं परम्

॥५॥

पातालस्य तदा दृष्ट्वा द्वारं विवररूपकम् ॥

प्रविष्टोऽथ जगामाशु यत्रानंतः स्वयं स्थितः

॥६॥

यतो नागस्वरूपेण स्थानेऽस्मिंश्च समाविशत् ॥

तत्प्रभृत्येव देवेशि नागस्थानमिति श्रुतम्

॥७॥

नागरादित्यपूर्वेण यत्र कायो विसर्जितः ॥

तदद्यापि प्रसिद्धं वै शेषस्थानमिति श्रुतम्

॥८॥

अतः स्नात्वा महादेवि तत्र तीर्थे त्रिसंगमे ।

नागस्थानं समभ्यर्च्य पञ्चम्यामकृताशनः

॥९॥

श्राद्धं कृत्वा यथाशक्त्या दत्त्वा विप्राय दक्षिणाम् ॥

विमुक्तः सर्वदुःखेभ्यो रुद्रलोकं स गच्छति

॥१०॥

पायसं मधुसंमिश्रं भक्ष्यभोज्यैः समन्वितम् ॥

शेषनागं समुद्दिश्य विप्रं यस्तत्र भोजयेत् ॥

कोटिभोज्यं कृतं तेन जायते नात्र संशयः

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नाग स्थानमाहात्म्यवर्णनंनाम षडशीत्युत्तरशततमोऽध्यायः ॥ १८६ ॥