पुष्करेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि पुष्करेश्वरमुत्तमम् ॥
तस्यैव दक्षिणे भागे जानकीश्वरमुत्तमम्
॥१॥लिंगं महाप्रभावं तु ब्रह्मपुत्रेण पूजितम् ॥
सनत्कुमारमुनिना श्रद्धया हेम पुष्करैः
॥२॥पूजितं तद्विधानेन तेन तत्पुष्करेश्वरम् ॥
ख्यातं तत्र वरारोहे सर्वपातकनाशनम्
॥३॥यस्तं पूजयते भक्त्या गंषपुष्पादिभिः क्रमात् ॥
यात्रा कृता भवेत्तेन पौष्करी नात्र संशयः
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वामनस्वामिमाहात्म्ये पुष्करेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोत्तरशततमोऽध्यायः ॥ ११५ ॥