मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २८५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 285

न्यंकुमतीमाहात्म्येऽगस्त्याश्रमगंगेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि पुनर्न्यंकुमतीं नदीम् ॥

तत्र कृत्वा गयाश्राद्धं गोष्पदे तीर्थ उत्तमे

॥१॥

ततः पश्येद्वराहं तु तस्माद्धरिगृहं व्रजेत् ॥

तत्र मातृस्तु संपूज्य स्नात्वा सागरसंगमे

॥२॥

न्यंकुमत्यर्णवोपेते ततः पूर्वमनु व्रजेत् ॥

अगस्तेराश्रमं दिव्यं क्षुधाहरमितिस्मृतम्

॥३॥

यत्रेल्वलं च वातापिं संहृत्य भगवान्मुनिः ॥

मुक्त्वाऽऽपद्भ्यो ब्राह्मणांश्च तेभ्यः स्थानं ततो ददौ

॥४॥

अगस्त्याश्रममेतद्धि अगस्तिप्रियमुत्तमम् ॥

न्यंकुमत्यास्तटे रम्ये सर्वपातकनाशने

॥५॥

देव्युवाच

अगस्तिनेह वातापिः किमर्थमुपशामितः ॥

अत्र वै किंप्रभावश्च स दैत्यो ब्राह्मणांतकः ॥

किमर्थं चोद्गतो मन्युरगस्तेस्तु महात्मनः

॥६॥

ईश्वर उवाच

इल्वलो नाम दैत्येन्द्र आसीद्वै वरवर्णिनि ॥

मणिमत्यां पुरा पुर्यां वातापिस्तस्य चानुजः

॥७॥

स ब्राह्मणं तपोयुक्तमुवाच दितिनंदनः ॥

पुत्र मे भगवन्नेकमिंद्रतुल्यं प्रयच्छतु

॥८॥

तस्मिन्स ब्राह्मणो नैच्छत्पुत्रं दातुं तथाविधम् ॥

चुक्रोध दितिजस्तस्य ब्राह्मणस्य ततो भृशम्

॥९॥

प्रभासक्षेत्रमासाद्य स दैत्यः पापबुद्धिमान् ॥

मेषरूपी च वातापिः कामरूपोऽभवत्क्षणात्

॥१०॥

संस्कृत्य भोजयेत्तत्र विप्रान्स च जिघांसति ॥

समा ह्वयति तं वाचा गतं चैव ततः क्षयम्

॥११॥

स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ॥

ततो वातापिरपि तं छागं कृत्वा सुसंस्कृतम् ॥

ब्राह्मणं भोजयित्वा तु पुनरेव समाह्वयत्

॥१२॥

स तस्य पार्श्वं निर्भिद्य ब्राह्मणस्य महात्मनः ॥

वातापिः प्रहसंस्तत्र निश्चक्राम द्विजोदरात्

॥१३॥

एवं स ब्राह्मणान्देवि भोजयित्वा पुनःपुनः ॥

विनिर्भिद्योदरं तेषामेवं हंति द्विजान्बहून्

॥१४॥

ततो वै ब्राह्मणाः सर्वे भयभीताः प्रदुद्रुवुः ॥

अगस्तेराश्रमं जग्मुः कथयामासुरग्रतः

॥१५॥

भगवञ्छृणु नो वाक्यमस्माकं तु भयावहम् ॥

निमंत्रिताः स्म सर्वे वा इल्वलेन वयं प्रभो

॥१६॥

अस्माकं मृत्युरूपं तद्भोजनं नास्ति संशयः ॥

तदस्मान्रक्ष भगवन्विषण्णागतचेतसः

॥१७॥

ततः प्रभासमासाद्य यत्र तौ दैत्यपुंगवौ ॥

ब्रह्मघ्रौ पापनिरतौ ददर्श स महामुनिः

॥१८॥

वातापिं संस्कृतं दृष्ट्वा मेषरूपं महासुरम् ॥

उवाच देहि मे भोज्यं बुभुक्षा मम वर्तते

॥१९॥

इत्युक्तौ स्वागतं तत्र चक्राते मुनये तदा ॥

भगवन्भोजनं तुभ्यं दास्येऽहं बहुविस्तरम् ॥

कियन्मानस्तवाहारस्तावन्मानं पचाम्यहम्

॥२०॥

अगस्त्य उवाच

अन्नं पचस्व दैत्येन्द्र किंचित्तृप्तिर्भविष्यति ॥

एवमस्त्विति दैत्येन्द्रः पक्वमाह महामुने

॥२१॥

आस्यतामासनमिदं भुज्यतां स्वेच्छया मुने ॥

इत्युक्तोऽघोरमंत्रं स जपन्कल्पांतकारकम् ॥

धुर्यासनमथासाद्य निषसाद महामुनिः

॥२२॥

तं पर्यवेषद्दैत्येंद्र इल्वलः प्रहसन्निव ॥

शतहस्तप्रमाणेन राशिमन्नस्य सोऽकरोत्

॥२३॥

ततो हष्टमनाऽगस्त्यः प्राग्रसत्कवलद्वयम् ॥

रूपं कृत्वा महत्तद्वद्यद्वत्सागरशोषणे

॥२४॥

समस्तमेव तद्भोज्यं वातापिं बुभुजे ततः ॥

भुक्तवत्यसुरो ह्वानमकरोत्तस्य इल्वलः

॥२५॥

ततोऽसौ दत्तवानन्नमगस्त्यस्य महात्मनः ॥

भस्मीचकार सर्वं स तदन्नं च सदानवम्

॥२६॥

इल्वलं क्रोधमुष्ट्या तु भस्मीचक्रे महामुनिः ॥

ततो हाहारवं कृत्वा सर्वे दैत्या ननंशिरे

॥२७॥

ततोऽगस्त्यो महातेजा आहूय द्विजपुंगवान् ॥

तत्स्थानं च ददौ तेभ्यो दैत्य्रानां द्रव्यपूरितम्

॥२८॥

क्षुधा हृता ततो देवि तत्रागस्त्यस्य दानवैः ॥

तेन क्षुधा हरंनाम स्थानमासीद्विजन्मनाम्

॥२९॥

तस्य पश्चिमभागे तु नातिदूरे व्यवस्थितम् ॥

गंगेश्वरमिति ख्यातं गंगया यत्प्रतिष्ठितम्

॥३०॥

वातापिभक्षणेपूर्वमगस्त्येन महात्मना ॥

दैत्यसंभक्षणोत्पन्नसर्वपातकशुद्धये ॥

समाहूता महादेवि गंगापातकनाशिनी

॥३१॥

ततो देवि समा याता गंगा पातकनाशिनी ॥

शुद्धिं चकार तस्यर्षेस्तत्र स्थाने स्थिताऽभवत्

॥३२॥

अगस्त्यस्याऽऽश्रमे रम्ये नृणां पापभयापहे ॥

तत्र गंगेश्वरं दृष्ट्वा अभक्ष्योद्भवपातकात् ॥

मुच्यते नात्र संदेहः स्नानदानजपादिना

॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्येऽगस्त्याश्रमगंगेश्वरमाहात्म्यवर्णनंनाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८५ ॥