मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३४२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 342

चंद्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्य दक्षिणनैर्ऋत्ये नातिदूरे व्यवस्थितम् ॥

लिंगं पापहरं देवि स्वयं सोमप्रतिष्ठितम्

॥१॥

तत्रैवामृतकुण्डं तु कलाकुण्डं तु तत्स्मृतम् ॥

तत्र स्नात्वा तु चंद्रेशं यो नरः पूजयिष्यति

॥२॥

स तु वर्षसहस्रस्य तपःफलमवाप्स्यति ॥

तत्रैव संस्थितं देवि तडागं चंद्रनिर्मितम्

॥३॥

धनुःषोडशविस्तारं चंद्रेशात्पूर्वपश्चिमे ॥

तत्पूर्वं ते समाख्यातं मुक्तिदानादिपूर्वकम्

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरमाहात्म्ये चंद्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४२ ॥