भैरवेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥
तस्यैव वह्निकोणस्थं धनुषांदशके स्थितम्
॥१॥सर्वकामप्रदं देवि दारिद्र्यौघविनाशनम् ॥
पूर्वं चण्डेश्वरंनाम ख्यातं कृतयुगे प्रिये
॥२॥चण्डोनाम गणो देवि तेन चाराधितं पुरा ॥
दिव्याब्दानां सहस्रं तु तेन चण्डेश्वरं स्मृतम्
॥३॥तं दृष्ट्वा देवदेवेशं स्पृष्ट्वा च सुसमाहितः ॥
मुच्यते सकलात्पापादाजन्ममरणांतिकात्
॥४॥तत्र कृष्णचतुर्दश्यां मासे भाद्रपदे प्रिये ॥
उपवास परो भूत्वा यः करोति प्रजागरम् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः
॥५॥वाचिकं मानसं पापं कर्मणा यदुपार्जितम् ॥
तत्सर्वं नाशमायाति तस्य लिंगस्य दर्शनात्
॥६॥तिला हिरण्यं वस्त्राणि तत्र देयं मनीषिणे ॥
सर्वकिल्विषनाशार्थं सम्यग्यात्राफलेप्सुना
॥७॥भैरवाकारमास्थाय कल्पान्ते स हरेद्यतः ॥
विश्वं समग्रं देवेशि तेनासौ भैरवः स्मृतः
॥८॥अस्मिन्कल्पे महादेवि प्रभासक्षेत्रमास्थितः ॥
बभूव भैरवो रुद्रः कल्पान्ते लिंगमूर्तिमान्
॥९॥एवं संक्षेपतः प्रोक्तं माहात्म्यं भैरवेश्वरम् ॥
यच्छ्रुत्वा मुच्यते जन्तुः पातकादतिभैरवात्
॥१०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये भैरवेश्वरमाहात्म्य वर्णनंनाम चतुर्णवतितमोऽध्यायः ॥ ९४ ॥