मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ७१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 71

ततो गच्छेन्महादेवि लिंगं तत्रैव संस्थितम्

ततो गच्छेन्महादेवि लिंगं तत्रैव संस्थितम् ॥

दक्षिणे वरुणेशस्य धनुषां त्रितये स्थितम्

॥१॥

भार्यया वरुणस्यैव उषा नाम्न्या वरानने ॥

कृत्वा तपो महाघोरं भर्तृदुःखपरीतया

॥२॥

स्थापितं तु महल्लिंगं सर्वसिद्धिप्रदायकम् ॥

उषेश्वरेति विख्यातं सर्वसिद्धिप्रपूजितम्

॥३॥

यस्तत्पूजयते भक्त्या लिंगं पापप्रणाशनम् ॥

महापापौघयुक्तोऽपि स गच्छेत्परमां गतिम्

॥४॥

स्त्रीणां सौभाग्यफलदं दुःखदौर्भाग्यना शनम्

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उषेश्वरमाहात्म्यवर्णनं नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥