मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १८२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 182

ततो मातृगणान्पश्येद्वसुनन्दादिनामतः

ततो मातृगणान्पश्येद्वसुनन्दादिनामतः ॥

अर्क स्थलसमीपस्थान्दक्षिणे नातिदूरतः

॥१॥

आश्वयुक्छुक्लपक्षे तु नवम्यां नियतात्मवान् ॥

यस्ताः पूजयते मातॄर्विधिना भावितात्मवान्

॥२॥

स समृद्धिमवाप्नोति दुरापामकृतात्मभिः ॥

तत्रैव संस्थितं पश्येच्छ्रीमुखं विवरप्रियम्

॥३॥

तस्मिन्नेव दिने पूज्यं सिद्धिकामैर्नरैः सदा ॥

एतत्पूर्वं मयाख्यातं तव विस्तरतः प्रिये

॥४॥

तस्मिन्नेव दिने पूज्यं तीर्थयात्राप्रसंगतः

॥५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये वसुनन्दामातृगणश्रीमुखविवर माहात्म्यवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥ १८२ ॥