मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३२९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 329

अथोत्तरे देवकुलात्तत्र गव्यूतिमात्रतः

ईश्वर उवाच

अथोत्तरे देवकुलात्तत्र गव्यूतिमात्रतः ॥

उत्तमस्थानमिति च प्रख्यातं धरणीतले

॥१॥

तस्योत्तरे तु दिग्भागे धनुर्द्वादशकांतरे ॥

उन्नतो विघ्नराजस्तु सर्वप्रत्यूहनाशनः

॥२॥

चतुर्थ्यां पूजितः सम्यक्सुगंधैः फलमोदकैः ॥

ददाति वांछितान्कामांस्त्रैलोक्ये विजयी भवेत्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतविनायकमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३२९ ॥