तस्मादाग्नेयकोणे तु मार्कंडेयसमीपगम्
ईश्वर उवाच
तस्मादाग्नेयकोणे तु मार्कंडेयसमीपगम् ॥
गुहालिंगं महादेवि नीलकण्ठेति विश्रुतम्
॥१॥विष्णुना पूजितं पूर्वं सर्व पातकनाशनम्
॥२॥तत्र यः पूजयेद्भक्त्या तल्लिंगं पापमोचनम् ॥
स पुत्रपशुमान्धीमान्मोदते पृथिवीतले
॥३॥एवं तत्र महादेवि मार्कण्डेयेश सन्निधौ ॥
ऋषीणामाश्रमा येऽत्र दृश्यन्तेऽद्यापि भामिनि
॥४॥अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥
तत्र स्थितानि देवेशि मार्कण्डेयाश्रमांतिके
॥५॥ऋषीणां च गुहास्तत्र सर्वा लिंगसमन्विताः ॥
दृश्यन्ते पुण्यतपसां तदाश्रमनिवासिनाम्
॥६॥तत्र यः स्थापयेल्लिंगं मार्कंडेशसमीपगम् ॥
कुलानां शतमुद्धृत्य मोदते दिवि देववत्
॥७॥सर्वे शिवमया लोकाः शिवे सर्वं प्रतिष्ठितम् ॥
तस्माच्छिवं यजेद्विद्वान्य इच्छेच्छ्रियमात्मनः
॥८॥शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु च ॥
स्वपतिं युवती त्यक्त्वा रमतेऽन्येषु वै यथा
॥९॥ब्रह्मादयः सुराः सर्वे राजानश्च महर्द्धिकाः ॥
मानवा मुनयश्चैव सर्वे लिंगं यजंति च
॥१०॥स्वनामकृतचिह्नानि लिंगानींद्रादिभिः क्रमात् ॥
स्थापितानि यथा स्थाने मानवैरपि भूरिशः
॥११॥स्थापनाद्ब्रह्महत्यां च भ्रूणहत्यां तथैव च ॥
महापापानि चान्यानि निस्तीर्णाः शिवतेजसा
॥१२॥वृत्रं हत्वा पुरा शक्रो माहेन्द्रं स्थाप्य शंकरम् ॥
लिंगं च मुक्तपापौघस्ततोऽसौ त्रिदिवं गतः
॥१३॥स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे ॥
निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधेः
॥१४॥काश्यां चैव तथादित्यः सह्ये गरुडकाश्यपौ ॥
प्रतिष्ठां परमां प्राप्तौ प्रतिष्ठाप्य जगत्पतिम्
॥१५॥ख्यातदोषा ह्यहिल्याऽपि भर्तृशप्ताऽभवत्तदा ॥
स्थाप्येशानं पुनः स्त्रीत्वं लेभे पुत्रांस्तथोत्तमान्
॥१६॥पश्यंत्यद्यापि याः स्नात्वा तत्राहिल्येश्वरं स्त्रियः ॥
पुरुषाश्चापि तद्दोषैर्मुच्यन्ते नात्र संशयः
॥१७॥स्थापयित्वेश्वरं श्वेतशैले बलिविरोचनौ ॥
उभावपि हि संजातावमरौ बलिनां वरौ
॥१८॥रामेण रावणं हत्वा ससैन्यं त्रिदशेश्वरम् ॥
स्थापितो विधिवद्भक्त्या तीरे नदनदीपतेः
॥१९॥स्वायंभुवर्षिदैवादिलिंगहीना न भूः क्वचित ॥
व्या पारान्सकलांस्त्यक्त्वा पूजयध्वं शिवं सदा ॥
निकटा इव दृश्यंते कृतांतनगरोपगाः
॥२०॥देवि किं बहुनोक्तेन वर्णितेन पुनः पुनः ॥
प्रभासक्षेत्रसारं तु मार्कण्डेयाश्रमं प्रति
॥२१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये मार्कण्डेयेश्वरमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरद्विशततमोऽध्यायः ॥ २१९ ॥