ततो गच्छेन्महादेवि रामेश्वरमनुत्तमम्
ईश्वर उवाच
ततो गच्छेन्महादेवि रामेश्वरमनुत्तमम् ॥
जामदग्न्येन रामेण स्वयं तत्र प्रतिष्ठितम्
॥१॥गोपीश्वराच्च वायव्ये धनुषां त्रिंशकेऽन्तरे ॥
स्थितं महाप्रभावं हि लिंगं पातकनाशनम्
॥२॥यदा रामेण देवेशि जमदग्निसुतेन वै ॥
कृतो मातृवधो घोरः पितुराज्ञानुवर्तिना
॥३॥तदा मनसि संतापं कृत्वा निर्वेदमागतः ॥
ततः प्रसन्नतां यातो जमदग्निर्महातपाः
॥४॥ददौ वरं ततस्तुष्टो रेणुकायाश्च जीवितम् ॥
एवं यद्यपि सा तत्र जीविता वरवर्णिनी
॥५॥तथापि सघृणो देवि जामदग्न्यो महाप्रभः ॥
प्रभासं क्षेत्रमासाद्य तपश्चक्रे ततोऽद्भुतम्
॥६॥प्रतिष्ठाप्य महादेवं शंकरं लोकशंकरम् ॥
दिव्यं वर्षशतं साग्रं ततस्तुष्टो महेश्वरः
॥७॥ददौ तस्येप्सितं सर्वं स्वयं तत्रैव संस्थितः ॥
ततः कृतार्थतां प्राप्तो जामदग्न्यो महाऋषिः
॥८॥त्रिःसप्तकृत्वः पृथिवीं जित्वा हत्वा च क्षत्रियान् ॥
कृत्वा पंचनदं तत्र कुरुक्षेत्रे महामनाः
॥९॥रक्तैः संपूर्णतां नीत्वा क्षत्रियाणां वरानने ॥
आनृण्यं समनु प्राप्तः पितॄणां यो महाबलः
॥१०॥एवं क्षत्त्रान्तकं कृत्वा दत्त्वा विप्रेषु मेदिनीम् ॥
कृतार्थतामनुप्राप्तस्त्रैलोक्ये ख्यातपौरुषः
॥११॥तेन तत्स्थापितं लिंगं क्षेत्रे प्राभासिके शुभे ॥
यस्तं पूजयते भक्त्या पापयुक्तोऽपि मानवः ॥
स मुक्तः पातकैः सर्वैर्याति लोकमुमापतेः
॥१२॥ज्येष्ठकृष्णचतुर्दश्यां जागृयात्तत्र यो नरः ॥
सोऽश्वमेधफलं प्राप्य मोदते दिवि देववत्
॥१३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जामदग्न्येश्वरमाहात्म्यवर्णनं- नामैकविंशत्युत्तरशततमोऽध्यायः ॥ १२१ ॥