मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 12

यमेश्वरोत्पत्तिवर्णनम्

ईश्वर उवाच

या संज्ञा सा स्मृता राज्ञी छाया या सा तु निक्षुभा ॥

राजृ दीप्तौ स्मृतो धातू राजा राजति यः सदा

॥१॥

अधिकं सर्वभूतेभ्यस्तस्माद्राजा स उच्यते ॥

राजपत्नी तु सा यस्मात्तस्माद्राज्ञी प्रकीर्तिता

॥२॥

क्षुभ संचलने धातुर्निश्चला तेन निक्षुभा ॥

भवंति ह्यथवा यस्मात्स्वांगीयाः क्षुद्विवर्जिताः

॥३॥

छाया तां विशते दिव्या स्मृता सा तेन निक्षुभा ॥

सांप्रतं वर्तते योऽयं मनुर्लोके महामते

॥४॥

तस्यान्ववाये जातस्तु शंखचकगदाधरः ॥

यमस्तु मात्रा संशप्तो हीनपादो धरातले

॥५॥

प्रभासक्षेत्रमासाद्य चचार विपुलं तपः ॥

वर्षाणामयुतं साग्रं लिंगं पूजितवान्प्रिये

॥६॥

तुष्टश्चाहं ततस्तस्य वराणां च शतं ददौ ॥

अद्यापि तत्र देवेशि यमेश्वरमिति श्रुतम् ॥

यमद्वितीयायां दृष्ट्वा यमलोकं न पश्यति

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरोत्पत्तिवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥