मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १२२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 122

चित्रांगदेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगं चित्रांगदेश्वरम् ॥

तस्यैव नैर्ऋते भागे धनुर्विंशतिभिः स्थितम्

॥१॥

चित्रांगदेन देवेशि गंधर्वपतिना प्रिये ॥

क्षेत्रं पवित्रं ज्ञात्वा वै लिंगं तत्र प्रतिष्ठितम् ॥

कृत्वा तपो महाघोरं समाराध्य महेश्वरम्

॥२॥

अथ यो भावसंयुक्तस्तल्लिगं संप्रपूजयेत् ॥

गांधर्वलोकमाप्नोति गन्धर्वैः सह मोदते

॥३॥

तत्र शुक्लत्रयोदश्यां संस्नाप्य विधिना शिवम् ॥

पूजयेद्विविधैः पुष्पैर्गंधधूपैरनु क्रमात् ॥

स प्राप्नोत्यखिलं कामं मनसा यद्यदीप्सितम्

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रांगदेश्वरमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥ १२२ ॥