गंगेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि लिंगं त्रैलोक्यविश्रुतम् ॥
गंगेश्वरेति विख्यातं संगमेश्वरपश्चिमे
॥१॥यदा गंगा समाहूता विष्णुना प्रभविष्णुना ॥
अन्तकालेऽभिषेकार्थं स्वकायस्य वरानने
॥२॥ततो दृष्ट्वा तु तत्क्षेत्रं पुण्यं ह्यृषिनिषेवितम् ॥
सर्वत्र व्यापितं लिंगैराश्रमैश्च तपस्विनाम्
॥३॥ततो गंगासरिच्छ्रेष्ठा पूर्वसागरगामिनी ॥
स्थापयामास तल्लिंगं शिवभक्तिपरायणा
॥४॥तं दृष्ट्वा तु वरारोहे गंगास्नानफलं लभेत् ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः
॥५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगेश्वरमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥