कर्कोटकार्कमाहात्म्यवर्णनम्
ईश्वर उवाच
तस्मादाग्नेयदिग्भागे स्थितः कर्कोटको रविः ॥
पूर्वकल्पे महादेवि स्मृतः कर्कोटकान्वितः
॥१॥तस्य दर्शनमात्रेण प्रीताः स्युः सर्वदेवताः ॥
सप्तम्यां रविवारेण धूप गंधानुलेपनैः ॥
पूजयेद्यो विधानेन मुच्यते सर्वकिल्बिषैः
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्कोटकार्कमाहात्म्यवर्णनंनाम षटचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४६ ॥