मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १६४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 164

प्रभासक्षेत्रमाहात्म्येऽश्विनेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तस्मात्पूर्वेण संस्थितम् ॥

महापापौघशमनं पूजितं सर्वकामदम्

॥१॥

अश्विनेश्वरनामानं धनुषां पंचके स्थितम् ॥

सर्वरोगप्रशमनं दृष्टं सर्वार्थसाधकम्

॥२॥

ये केचिद्रोगिणो लोके तेषां तद्भेषजं महत् ॥

माघमासे द्वितीयायां दर्शनं तस्य दुर्लभम्

॥३॥

तस्मात्पश्येच्च तद्भक्त्या यदि श्रेयोऽभिकांक्षितम् ॥

महापापौघशमनं पूजितं सर्वकामदम्

॥४॥

इति लिङ्गद्वयं देवि सूर्यपुत्रप्रतिष्ठितम् ॥

तस्मिन्नेव दिने पश्येत्संयतात्मा नरोत्तमः

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽश्विनेश्वरमाहात्म्यवर्णनंनाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥ १६४ ॥