पांडवकूपमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि कूपं त्रैलोक्यपूजितम् ॥
पश्चिमे तस्य तीर्थस्य पांडवानां महात्मनाम्
॥१॥यदाऽरण्यमनुप्राप्ताः पांडवाः पृथिवीतले ॥
भ्रममाणा महादेवि प्रभासं क्षेत्रमागताः
॥२॥ततस्ते न्यवसंस्तत्र किंचित्कालं समाहिताः ॥
गत्वा क्षेत्रं महापुण्यं ततः कृष्णाऽब्रवीदिदम्
॥३॥ब्राह्मणानां सहस्राणि भुंजते भवतां गृहे ॥
दूरे जलाश्रयश्चैव न तावंतश्च किंकराः
॥४॥तस्माज्जलाश्रयः कार्यं आश्रमस्य समीपतः ॥
यत्र स्नानं करिष्यामि युष्माकं संप्रसादतः
॥५॥ततस्तु पांडवाः सर्वे सहितास्ते वरानने ॥
अखनंस्तत्र ते कूपं द्रौपदीवाक्यप्रेरिताः
॥६॥अथाजगाम तत्रैव भगवान्देवकीसुतः ॥
श्रुत्वा समागतान्पार्थान्द्वारावत्याः सबांधवः
॥७॥प्रद्युम्नेन च सांबेन गदेन निषधेन च ॥
युयुधानेन रामेण चारुदेष्णेन धीमता
॥८॥अन्यैः परिवृतः शूरैर्यादवैर्युद्ध दुर्मदैः ॥
ते समेत्य यथान्यायं समस्ता यदुपुंगवाः
॥९॥ततः कथावसाने च कस्मिंश्चित्कारणांतरे ॥
वासुदेवः पांडुसुतमिदं वचनमब्रवीत्
॥१०॥युधिष्ठिर महाबाहो किं ते कामकरोम्यहम् ॥
राज्यं धान्यं धनं चापि अथवा रिपुनाशनम्
॥११॥युधिष्ठिर उवाच
शक्तस्त्वं यादवश्रेष्ठ सर्वकर्मस्वसंशयः ॥
प्रतिज्ञातं त्वया पूर्वं वर्षैर्द्वादशभिः प्रियम्
॥१२॥तन्नास्ति त्रिषु लोकेषु यन्न सिद्ध्यति भूतले ॥
त्वयि तुष्टे जगन्नाथ सर्वदेवनमस्कृते
॥१३॥अवश्यं यदि तुष्टोऽसि मम सर्वजगत्पते ॥
अत्र सांनिध्यमागच्छ कूपे नित्यं जनार्दन
॥१४॥अत्रागत्य नरो यस्तु भक्त्या स्नानं समाचरेत् ॥
स यातु वैष्णवं स्थानं प्रसादात्तव केशव
॥१५॥ईश्वर उवाच
एवं भविष्यतीत्युक्त्वा तदाऽमन्त्र्य युधिष्ठिरम् ॥
प्रययौ द्वारकां कृष्णः सर्वलोकनमस्कृतः
॥१६॥तस्मिञ्छ्राद्धं नरः कृत्वा वाजिमेधफलं लभेत् ॥
प्रसादाद्देवदेवस्य विष्णोरमिततेजसः
॥१७॥तदर्धं तर्पणेनैव स्नानात्पादमवाप्नुयात् ॥
तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत्
॥१८॥ज्येष्ठस्य पौर्णमास्यां यः स्नानं श्राद्धं करिष्यति ॥
सावित्रीं चैव संपूज्य स यास्यति परमं पदम्
॥१९॥गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः
॥२०॥इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पांडवकूपमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३२ ॥