मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 295

इन्द्रेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्मादीशान दिग्भागे इन्द्रस्थानमनुत्तमम् ॥

गव्यूतिपञ्चमात्रेण यत्र चन्द्रसरः प्रिये

॥१॥

तस्मादुत्तरदिग्भागे नातिदूरे व्यवस्थितम् ॥

यत्र चन्द्रोदकं देवि जरादारिद्र्यनाशनम्

॥२॥

चन्द्रानुवृद्ध्या तद्वृद्धिः क्षयस्तत्संक्षये भवेत् ॥

तस्मिन्पापयुगेऽप्येवं कदाचित्संप्रदृश्यते

॥३॥

तत्र स्नात्वा महादेवि यदि पापसहस्रकम् ॥

कृतं सोऽत्र समायाति नात्र कार्या विचारणा

॥४॥

तत्राहिल्याप्रसंगोत्थमहापातकभीरुणा ॥

गौतमोद्भवशापेन विलक्ष्यीकृतचेतसा

॥५॥

इन्द्रेण च पुरा देवि इष्टं विपुलदक्षिणैः ॥

तत्र वर्षसहस्राणि संस्थाप्य शिवमीश्वरम् ॥

इन्द्रेश्वरेति नाम्ना वै सर्वपातक नाशनम्

॥६॥

चन्द्रतीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ॥

इन्द्रेश्वरं च संपूज्य मुच्यते नात्र संशयः

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चन्द्रोदकतीर्थमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम पञ्चनवत्युत्तर द्विशततमोऽध्यायः ॥ २९५ ॥